Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 352
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 338 ललितासहस्रनामस्तोत्रम् सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम । यः पठेन्नामसाहनं विषं तस्य विनश्यति॥ २६० ॥ श्रीपुरं यत्र यत्रास्ति तत्र तत्रैक: सुधाह्रदोऽस्ति । सगुणब्रह्मोपासकप्राप्यायामपराजिताख्यनगर्यामरण्याख्यौ द्वौ सुधाह्रदौः स्त: । ब्रह्मरन्ध्रेऽप्येकोऽस्ति । तेषां मध्ये विद्यमानत्वेन यथाधिकारं ध्यात्वा ध्यायन्मनसाभ्यर्थे ति शेष: । विषं स्थावरजङ्गमोभयरूपम् । अयञ्च प्रयोगः प्रायेण न व्यधिकरणफलकः ॥ २६० ॥ पुत्रप्रदमपुत्राणामित्यंशं क्रमप्राप्तत्वाद्विवेचयति वन्ध्यानां पुत्रलाभाय नामसाहस्रमन्त्रितम् । नवनीतं प्रदद्यात्तु पुत्रलाभो भवेद् ध्रुवम् ॥ २६१ ॥ वन्ध्यानामिति । अप्रजा-मृतप्रजास्त्रीप्रजा-काकवन्ध्यानां संग्रहाय वन्ध्यानामिति बहुवचनम् । पुत्रलाभायेति पुत्रशब्दोऽपत्यमात्रवचनः । 'पुमांस एव मे पुत्रा जायेरग्नि'त्यत्र पुमांस इति विशेषणस्वारस्यात् । 'पौत्री मातामहस्तेने ति मनुस्मृतिप्रयोगाच्च । पुत्रीशब्दात्तद्धितस्वीकारे पौत्रेयीति रूपापत्तेः । अथवा पुत्राश्च दुहितरश्चेति विग्रहे 'भ्रातृपुत्रौ स्वसूदुहितृभ्या'मित्येकशेषे पुत्रा इत्येव रूपं तेषां लाभ: पुत्रलाभस्तस्मै । तेन कन्येच्छूनामप्यस्मिन्प्रयोगेऽधिकारः । 'प्रदद्यात् तमस्मै भक्षं प्रयच्छे'दित्यत्र व्यवधारण कल्पनया तेन यजेतेत्यर्थवदिहापि वन्ध्या भक्षयेदित्यर्थः । तेन वन्ध्याया गुरूपास्तिलाभे स्वयमपि मन्त्रयित्वा प्राश्नीयादिति सिद्ध्यति । पुत्राणां दुहितॄणां च लाभो ध्रुवं निश्चयेन भवेत् ॥ २६१ ॥ ___ इदानीं पुरुषार्थप्रदायकमिति विशेषणं क्रमप्राप्तत्वात्पञ्चत्रिंशद्भिः श्लोकैर्विवेचयितुकामस्तदन्तर्गते त्रिवर्गे चरमस्यापि पुत्रप्रदप्रयोगेणेह प्रथमं स्त्रीद्वारोपस्थितत्वात्तत्प्राप्तिफलकं वनिताकर्षणप्रयोगमाह सार्धेन देव्याः पाशेन सम्बद्धामाकृष्टामधेशेन च । ध्यात्वाभीष्टां स्त्रियं रात्रौ पठेनानामसहस्रकम् ॥ २६२ ॥ देव्या इति । अत्र राज्ञः पुरुष इत्यादाविव देव्याः शब्दमर्यादया गुणत्वेनान्वयेऽप्यर्थतः प्राधान्यादभीप्सितां स्त्रियं पाशेन सम्यग्बद्धामङ्कुशेन कर्षन्तीं देवीं ध्यायन्पठेदित्यर्थः । मन्त्रजपमात्रे तद्देवताध्यानस्यावश्यकत्वेन प्राप्तत्वात्तदाश्रयेण गुणफलसम्बन्धमात्रविधानार्थत्वादस्य वाक्यस्य । न च पठनाश्रयेण पाशाकृष्टस्त्रीध्यानरूपगुण: फलाय विधीयतामिति वाच्यम् । तथापि देवीध्यानस्य विध्यन्तरप्राप्तस्य निरपवादत्वेन फलाय विधीयमानस्य ध्येयरूपगुणस्य विषयितासम्बन्धेन ध्यानाश्रितस्यैव सामञ्जस्यात् । ध्यानपाठयोरेककालीनत्वादिविप्रकृष्टसम्बन्धस्या For Private and Personal Use Only

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392