Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 390
________________ Shri Mahavir Jain Aradhana Kendra 376 www.kobatirth.org अम्ब त्वत्पदयोः त्वन्नामार्थविकासकं ललितासहस्रनामस्तोत्रम् समर्पितमिदं भाष्यं त्वया कारितं तव मुदे भूयादथ त्वां भजन् । नैनत्परिशीलयेन्न च पठेद्यः पुस्तकस्यापि वा यो संग्राहं न करोति तस्य ललिते माभूद्भवत्यां मतिः ॥ ४ ॥ नामैकं मामनयन्नामसहस्राम्बुधेः परं पारम् । जलबिन्दुर्भवजलधेर्येषां ते मे जयन्ति गुरुचरणाः ॥ ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir ॥ इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणसर्वतन्त्रस्वतन्त्र-श्रीमद्गम्भीररायदीक्षितसूरिसूनुना भारत्युपाख्येन भास्कररायेण भासुरानन्दनाथेतिदीक्षानामशालिना प्रणीतं सौभाग्यभास्कराख्यं ब्रह्माण्डपुराणीयश्रीललितारहस्यनामसहस्रभाष्यं सम्पूर्णम् ॥ सम्पूर्णोऽयं ग्रन्थः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 388 389 390 391 392