Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
375
तात
सौभाग्यभास्कर-बालातपासहितम्
सूत उवाच इत्युक्त्वा श्रीहयग्रीवो ध्यात्वा श्रीललिताम्बिकाम् ।
आनन्दमग्नहृदयः सद्यः पुलकितोऽभवत् ।। ३२० ॥ प्रहृष्टो वचनं प्राहेत्यादिनोपक्रान्तमेकेन श्लोकेनोपसंहरति भगवान्सूतः । आनन्दे स्वात्मानन्दे मग्नं विषयान्तरसञ्चारराहित्येन तदेकप्रवणं हृदयं चित्तं यस्य सः । पुलका आनन्दजन्यरोमाञ्चा अस्य सञ्जाता इति पुलकितः । तारकादित्वादितच् ॥ ३२० ॥ इति श्रीब्रह्माण्डपुराणे ललितोपाख्याने हयग्रीवागस्त्यसंवादे ललिता
सहस्रनामस्तोत्रं नाम षट्त्रिंशोऽध्यायः॥ अथ परिभाषायां स्वग्रन्थमुपसंहरति
इति परिभाषामण्डलमुदितं नरसिंहयज्वना विदुषा ।
सत्सम्प्रदायगमकं शिवभक्तानन्दनाय शिवम् ॥ ४० ॥ मण्डलशब्दश्चत्वारिंशत्संख्यात्मकसमूहपरः। विदुषा विद्याष्टादशकविदा श्रीविद्योपासकेन च । शिवयोर्भक्तानां सत्सम्प्रदायं दुर्लभतरमन्वेषमाणानामानन्दनाय । शिवं मङ्गलरूपमिति सर्वं शिवम् ॥ ४० ॥
इति भास्कररायेण कृते सौभाग्यभास्करे । जाता फलश्रुतिः श्लोकः क्षमाख्या द्वादशी कला ॥ १२ ॥
-
ग्रन्थकृत्प्रशस्तिः श्रीविश्वामित्रवंश्यः शिवभजनपरो भारती सोमपीथी काश्यां गम्भीरराजो बुधमणिरभवद्भास्करस्तस्य सूनुः । मोदच्छायामितायां शरदि शरदृतावाश्विने कालयुक्ते शुक्ले सौम्ये नवम्यामतनुत ललितानामसाहनभाष्यम् ॥ १॥ श्रुतिस्मृतिन्यायपुराणसूत्रकोशागमश्रीगुरुसम्प्रदायात् निश्चित्य निर्मथ्य कृतापि टीका शोध्यैव सद्भिर्मयि हार्दवद्भिः ॥ २॥ प्रमादो मेऽवश्यं भवति मतिमान्द्यादलसतः पदार्थन्यायानामपि
दुरवगाहत्वनियमान् । परं त्वन्तः सन्तः सदयहृदया नाममहिमाप्यपूर्वस्तस्मान्मे न खलु खलपापोभयभयम् ॥ ३ ॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 387 388 389 390 391 392