Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 388
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 374 ललितासहस्रनामस्तोत्रम् अत एव निषेधत्यर्धेन-पश्विति । पशवश्च द्विविधाः पूर्वमुक्ताः । निषेधोल्लङ्घने दण्डमाह-य इति । यश्च गृह्णातीति चकारलभ्योऽर्थः ॥ ३१६ ॥ तस्मै कुप्यन्तिः योगिन्यः सोऽनर्थः सुमहान्स्मृतः 1 रहस्यनामसाहस्रं तस्मात् संगोपयेदिदम् ॥ ३१७ ॥ Acharya Shri Kailassagarsuri Gyanmandir तस्मै दात्रे विद्यारहिताय ग्रहीत्रे च । 'क्रुधदुहेर्ष्यासूयार्थानां यंप्रति कोप' इति सम्प्रदानसंज्ञा । गोपनीयतामुपसंहरत्यर्धेन - रहस्येति । रहस्येत्यादिविशेष्यं हेतुगर्भम् । तेन परिकराङ्कुरालङ्कारः । तस्मात् अनधिकारिणोर्दातृग्रहीत्रोरनर्थप्रदत्वात् रहस्यत्वाच्च गोपयेदित्यर्थः ॥ ३१७ ॥ स्वतन्त्रेण मया नोक्तं तवापि कलशोद्भव | ललिताप्रेरणादेव मयोक्तं स्तोत्रमुत्तमम् ॥ ३१८ ॥ ननु यद्विद्यावतेऽपि गोप्यं तन्मह्यं त्वया कथं प्रदर्शितमित्याशङ्कमानमगस्त्यं समाधत्ते हयग्रीवः - स्वतन्त्रेणेति । स्वतन्त्रेण पराप्रेरितेन । कलशीति जातिलक्षणो ङीष् । तत्प्रयोगश्च श्लेषेण देवीपुत्रबोधनाय । तदप्युपास्तिबलेन देवीपुत्रभावपर्यन्तां पदवीमुपारूढे वात्सल्येन ललिताम्बाप्रेरणावश्यंभावध्वननाय । 'कलं शुके कलौ जीर्णे कलो नादेऽतिमञ्जुल' इति यादवबलात्कले शुके नादे वा शेत इति कलशी देवी । सर्वोत्तमत्वाद्वा । 'सर्वोत्तमे चोत्तमाङ्गे कुम्भे च कलशध्वनिरिति रभसः । ललिताप्रेरणादेव तत्प्रवर्तनाया अनुल्लङ्घनीयत्वात् । अधिकारिविषय एव तत्प्रेरणस्य जायमानत्वाच्च । तेनोपासकाभासायैव न प्रदर्श्यमिति भावः ॥ ३१८ ॥ कीर्तनीयमिदं भक्त्या कुम्भयोने निरन्तरम् । तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ॥ ३१९ ॥ त्वं तु नोपासकाभासः अपि तु पूर्णोऽधिकारीति ध्वननाय प्रवर्तयति । त्वयेति शेषः । निरन्तरमभेदानुसन्धानपूर्वकम् । न चात्र नामकीर्तनविधिरसकृच्छ्रयमाणोऽभ्यासात्कर्माणि भिन्द्यादेवेत्येकस्येवैतावन्ति फलानीति वर्णनमयुक्तमिति वाच्यम् । भावनाभेदमात्रेणापि तदुपपत्तेः फलस्यानुपादेयत्वेन तद्विशेषोद्देशेन कर्मण एव पुनःपुनर्विधानेऽप्यन्यपरत्वेन तादृशस्य पुनः श्रवणस्याभ्यासरूपत्वाभावात् । 'अपः प्रणयतीति विधेरर्थवादवैचित्र्यार्थ षड्वारं श्रवणेऽपि कर्मभेदानङ्गीकारात् । अनुपादेयगुणसाचिव्येऽप्यसन्निधेरभावेन प्रकरणान्तरस्यापि शङ्कितुमयोगाच्चेति दिक् || ३१९ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392