Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर - बालातपासहितम्
359
वाच्यम् । लिङ्गदर्शनमात्रनिर्णयस्यानिर्णायकत्वात् । सहस्रभोजन इति सप्तम्या 'तत्र जयान्जुहुया' दितिवदङ्गित्वबोधकतयान्यत्र प्रधानस्यापि नित्याबलेस्तावन्मात्रं प्रत्येवाङ्गत्वमिति बोधनेनाप्यतिदेशवाक्योपपत्तेश्च । बृहस्पतिसवे तथा दर्शनात् ।
इयांस्तु विशेषः- तत्र प्रकरणान्तराद्भेदः । अत्र तु त्रिशतीप्रकरण एव दूरस्थानुवादेन द्वादशोपसत्त्ववन्नित्याबलेरङ्गत्वविधानात् 'सन्निधौ त्वविभागादिति न्यायेन न भेद इति । तस्मान्नित्याबलित्रिशतभोजनयोः समप्राधान्यमेवेति । सिद्धान्तस्तुफलविधिवाक्यस्य नित्याबलिवाक्येन सहान्वयस्तूभयाकाङ्क्षामात्राद्वक्तव्यः । त्रिशतभोजनवाक्येन तु सहानन्तर्येणोभयाकाङ्क्षया चेति झडिति तेनैव सहान्वये नित्याबलेः फलवदफलन्यायेन प्रधानोपकारकत्वेनैव भाव्याकाङ्क्षानिवृतौ न फलवाक्येनान्वय इति प्रकरणिनिश्चयो निराबाधः । एवं च नामत्रिशतीप्रकरणे कामेश्वर्यादिना - मान्तराणां प्रयोगकथनस्यासमञ्जसतापि निरस्ता भवति । न च नित्याबलेस्त्रिशतभोजनंप्रति प्रकृतित्वमप्यावश्यकम् । 'तैलाभ्यङ्गादिकं दद्याद्विभवे सति भक्तित' इति वाक्ये तैलाभ्यङ्गादेरेव त्रिशतभोजनाङ्गत्वेन विधेयत्वात् । 'अभ्यक्तान्गन्धतैलेने 'यादिवाक्यानां त्ववान्तरप्रकरणान्नित्याबल्यङ्गत्वेनैव विधायकतया तदनुवादेन विभव - परत्वेन व्यवस्थामात्रविधायकत्वाङ्गीकारे त्रिशतब्राह्मणानां तैलाभ्यङ्गादेरनापत्तेः प्रापकाभावात् व्यवस्थायाः पुरोवादानुसारेण नित्याबलावेव सिद्धेः । न च चोदकतः प्राप्तिः प्रकृतिविकृतिभावस्याधुनाप्यसिद्धेः । एतद्बलादेव साधने त्वन्योन्याश्रयः । न चैवं विभववाक्येऽभ्यङ्गविधिस्तदनुवादेन व्यवस्थाविधि - श्चेति वाक्यभेदः । 'आख्यातानामर्थं ब्रुवतां शक्ति: सहकारिणीति न्यायेन विभवे सत्येव तत्सामर्थ्यस्य न्यायलभ्यतया तदंशेऽनुवादात् । काम्येऽपि यथाशक्त्युपबन्धस्य तान्त्रिकैः फलतारतम्यविधया स्वीकारात् । प्रकृतिविकृतिभावस्वीकारेऽपि वा न प्राकरणिकमङ्गत्वं ब्रूमः । येनोक्तरीत्या विरोध आपद्येत । अपि त्वादिपश्चाद्वाक्येनैवाङ्गत्वं वैमृधपूर्णमासयोरिव विधीयते इत्यदोषः । तस्मान्नित्याबलिस्त्रिशतभोजनं प्रत्यङ्गमेवेति । न चैवमतिदेशवाक्य एवमेवेत्यनेनैव सर्वाङ्गातिदेशे सिद्धे पुनः 'आदौ नित्याबलिं कुर्यादिति वाक्यवैयर्थ्यम् । एवं पदस्य सन्निहिततैलाभ्यङ्गादिसन्निपत्योपकारकाङ्गमात्रपरत्वभ्रमनिरासाय तद्विवरणार्थत्वादिति दिक् ।
अत्रायं प्रयोगविधिः–प्राणानायम्य देशकालौ संकीर्त्य श्रीमहात्रिसुरसुन्दरीप्रीत्यर्थममुकसंख्या कैर्दिवसै रहस्यसहस्रनामभिः सहस्रब्राह्मणान्पूजयन्भोजयिष्ये तत्पूर्वाङ्गत्वेन नित्याबलिं च करिष्य इति संकल्प्य पुण्याहं वाचयित्वा षोडशब्राह्मणान्निमन्त्रयेत् । तेष्वागतेषु पादान्प्रक्षाल्य गन्धतैलेनाभ्यज्योष्णोदकैः स्नपयित्वासनेषूपवेश्य तिलकेषु
For Private and Personal Use Only
Loading... Page Navigation 1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392