Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 377
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर - बालातपासहितम् किं बहुना तन्त्रोक्तकर्मसु भराभावेन ये श्रौतस्मार्तकर्मस्वेवातीवाचरणादरणशी लास्तेषामप्येतदुपकारकमित्याह चतुराश्रमनिष्ठैश्व कीर्तनीयमिदं सदा । स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये Acharya Shri Kailassagarsuri Gyanmandir ॥ ३०० ॥ चतुरेति । ब्रह्मचारिगृहस्थवानप्रस्थयतयस्तत्तदवान्तरभेदाश्चतुराश्रमनिष्ठास्तैः स्वस्वधर्माणां सम्यग्यथाशास्त्रमनुष्ठाने क्रियमाणे यदवश्यंभवि वैकल्यं वैगुण्यं तस्य परिपूर्तये समाधानायेति तादर्थे चतुर्थी । चतुराश्रमिणां यानि यानि कर्माणि श्रुतिस्मृतिविहितानि तानि तानि सर्वाणि सर्वाङ्गोपसंहारसमर्थस्यैव फलप्रदानि । सर्वाङ्गोपसंहारश्च प्रायेणाधुनिकानामशक्यतमः । तदिदमस्माभिः प्रदर्शितं शिवस्तवे'स्वामिनङ्गेषु सर्वेष्वपि सुविरचितेष्वेव कर्माणि किञ्चितुच्छं यच्छन्ति नो चेन्निरयदुरवटे संशयं वासयन्ति । मन्त्रैर्यन्त्रार्थबोधान्गुरुकुलनियमान्देशकालार्थशोधा द्गाढं गूढं च तत्त्वात्कथमतिकठिनोपेयुषी शेमुषी नः ॥' 'मन्नामोच्चारणात्सर्वे मखेषु सकलेषु च । सदा तृप्ताश्व सन्तुष्टा भविष्यध्वं सुराः किल ॥' 363 इति । ततश्च दुरवगाहाङ्गलोपस्यावश्यकतया तज्जनितपापनिरासद्वारा साद्गुण्यसम्पादनायेदं सर्वेषामावश्यकमिति भावः । उक्तञ्च देवीभागवते तृतीयस्कन्धे देवान्प्रति भगवत्या For Private and Personal Use Only इत्थञ्च संयोगपृथक्त्वन्यायेनास्य क्रत्वर्थपुरुषार्थोभयरूपतासिद्धिः ॥ ३०० ॥ अथ परिभाषायां विंशतिश्लोकान् व्याचष्टे नामस्मरणावश्यकतोक्तिः सार्धत्रयोदशश्लोकैः । उपसंहारः साधैः पञ्चभिरेकेन सूतोक्तिः ॥ ३९ ॥ अत्र चरमश्लोकस्यैकस्य सूतोक्तिरूपताकथनेन ततः पूर्वेषां हयग्रीवोक्तिरूपतैवेति द्योतितम् 'दशभूः सार्धनृपाला' इति वक्तृनिर्णायकश्लोके चरमस्थाने हयग्रीवस्यैव कथनात् तत्परत एतदवधिपर्यन्तमन्यस्य कस्यापि वक्तृत्वेन परिगणनाभावाच्च । तत्रैवाध्युष्टमित्युक्तिस्तु पूर्वभागाभिप्रायेणेत्यविरोधः ॥ ३९ ॥ नन्वङ्गलोपप्रतिसमाधानाय प्रायश्चित्तान्यपि तत्र तत्रैव विहितानीति तैरेव साद्गुण्यसिद्धौ किमनेन सहस्रनामस्तोत्रेणेत्यत आह कलौ पापैकबहुले धर्मानुष्ठानवर्जिते । नामानुकीर्तनं मुक्त्वा नृणां नान्यत्परायणम् ॥ ३०१ ॥

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392