Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
371
सौभाग्यभास्कर-बालातपासहितम् रिगृहितनेत्रकस्य लेखो महानिव विभाति यदल्पकोपि'त्यस्माभिः शिवस्तवे कथनात् । ततश्च तादृशचेतोवृत्त्यानन्त्याद्यस्यैव पुंसो यत्रैव रुचिस्तदुद्देशेनैव तानि शास्त्राणि प्रवृत्तानि । दृश्यते च लोकेऽपि कस्यचित्स्थूले गुरुभूत एवोपाये रुचिः कस्यचिल्लघुभूत एवेति । ततश्च तादृशसमस्तजनानुजिघृक्षया तानि तानि शास्त्राणि भगवत्यैव कृतानीति नानर्थक्यम् । सहस्रनामपाठे प्रणाडिकया रुच्युत्पादकत्वादपि सार्थक्यमिति तु गूढोऽभिसन्धिः । लघूपाये सत्यपि गुरूपाये जनानां प्रवृत्तिस्तु तत्तत्कर्मानुसारिव्यामोहादेवेति भावः ॥ ३०५ ॥
विष्णुनामपराः केचिच्छिवनामपराः परे ।
न कश्चिदपि लोकेषु ललितानामतत्परः ॥ ३०६ ॥ श्रौतस्मार्तकर्मस्वेव रतानां बहुजन्मभिस्तादृशकर्मजन्यपुण्यपरिपाकेन विष्णुनामसु प्रीतिर्बहूनां सम्भवतीत्याशयेनाह-विष्णिवति । तादृशविष्णुनामकीर्तनेन कतिपयैर्जन्मभिः शिवनामस्वपि कतिपयेषां प्रीतिः सम्भवतीत्याशयेनाह-शिवनामपरा इति । शिवस्य तु द्वित्रिचतुरादिभूमिकाभेदेन बहुविधत्वात्तत्र सतोऽपि परस्परतारतम्यस्य दु रवगाहत्वाद्बहुभिरपि जन्मभिः प्रयत्नत उत्तरां कक्ष्यामधिरूढा अपि मध्य एवावतिष्ठमाना भासन्ते । शिवकक्ष्येयत्तानिर्णयस्य रहस्यत्वेनाप्रसिद्धत्वात् । अतो बहुतरजन्मभिर्बहुपुण्यसम्भारैश्च लभ्यत्वाद्रहस्यतरेषु देवीनामसु प्रीतिर्दुर्लभतरा पर्यवस्यति । अत एवोक्तं ब्रह्माण्डपुराणे
'यस्य नो पश्चिमं जन्म यदि वा शङ्करः स्वयम् ।
तेनैव लभ्यते विद्या श्रीमत्पञ्चदशाक्षरी ॥ इति । अत्र शङ्कराणां क्रमेणाभेदानुसन्धानरूपोपासनया चरमशङ्करतादात्म्यापन्नो यदि वा शङ्कर इत्यनेन कथ्यते । तादृशी च दशा दुर्लभतरैव । या च दुर्लभतरा सा प्रायेणाविद्यमानप्रायेवेत्याशयेनाह-न कश्चिदपीति । लोकेषु मनुष्येषु देवेषु दानवादिषु च ॥ ३०६ ॥ इदानीं गूहितमभिप्रायं स्फोटयति
येनान्यदेवतानाम कीर्तितं जन्मकोटिषु ।
तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने ॥ ३०७ ॥ येनेति । अन्यासां विष्णुरुद्रेश्वरादीनां देवतानां नाम प्रातिस्विकं जन्मकोटिषु येन कीर्तितं तस्यैव कक्ष्याक्रमेणोत्तरोत्तरदेवतातादात्म्याच्चरमशिवतादात्म्यापन्नस्यैव
For Private and Personal Use Only
Loading... Page Navigation 1 ... 383 384 385 386 387 388 389 390 391 392