Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 384
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ललितासहस्रनामस्तोत्रम् Acharya Shri Kailassagarsuri Gyanmandir 370 चैदंपर्येण सर्वत्र ज्ञानार्णव - कुलार्णवादितन्त्रेषु त्वपरिमिततया वर्णितमिति तद्वेदितॄणां स्पष्टमिति नेह प्रतन्यते ॥ ३०३ ॥ तेषु मुख्यं दशविधं नामसाहस्रमुच्यते । रहस्यनामसाहस्रमिदं शस्तं दशस्वपि ॥ ३०४ ॥ तेषु कोटिषु । दशविधम्- 'एते दशस्तवा गङ्गाश्यालका बालरासभा' इत्यभियुक्तेः संगृहीतप्रकारदशकवत् । अत्र गङ्गाद्यक्षरदशकं सहस्रनामदशकस्याद्याक्षररूपम् । मद्वयं भद्वयं चैव ब्रत्रयं व चतुष्टयम् । अनापलिङ्गकूस्कं च पुराणानि पृथक्पृथक् ॥' इति देवीभागवतस्थश्लोक इव 'नामैकदेशे नामग्रहण' मिति न्यायसिद्धम् । चरमो भकारो ह्रस्व एव । दीर्घपाठस्तु बहुवचनप्रयुक्तः । ततश्च - 'गङ्गा भवानी गायत्री काली लक्ष्मीः सरस्वती । राजराजेश्वरी बाला श्यामला ललिता दश ॥ इति तदर्थः । त्रिपुरसुन्दर्या एव तन्त्रभेदेन सहस्रनामदशकमस्तीत्यप्याहुः । तं प्रशस्तम् || ३०४ ॥ उपसंहरति तस्मात्सङ्कीर्तयेन्नित्यं कलिदोषनिवृत्तये । मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः ३०५ ॥ तस्मादिति । कलिप्रयुक्तो दोषः स्वस्वधर्मसमनुष्ठानवैकल्यं तस्य निवृत्तयेऽङ्गादिपरिपूर्तये । वैकल्यञ्च च नाङ्गलोप एव अपि तु प्रधानलोपोऽपि । प्रधानविकल्पत्वाविशेषात्, कलिप्रयुक्तदोषत्वाविशेषाच्च । सोऽपि च प्रायेणाधुनिकानां सर्वेषां कर्मठमन्यानामपरिहरणीय एव । देवतोद्देशेन द्रव्यन्त्यागरूपस्य यागस्य मानससङ्कल्पविशेषात्मकत्वेनाग्नय इदं नममेत्यादिस्पष्टतरशब्दाभिलापमात्रेण तस्या जायमानत्वात् । एवं सन्ध्यावन्दनपदवाच्यं प्रधानं 'असावादित्यो ब्रह्मेति मन्त्रार्थानुसन्धानमादित्यावच्छिन्नचैतन्यस्य सवात्मचैतन्येन सहाभेदभावनारूपम् । तच्च शिष्टानां रहस्याभिज्ञानामपि कादाचित्कमेव न सार्वत्रिकमिति प्रधानलोपः सर्वेषामपरिहार्यः । न च तेषामङ्गवैगुण्यनिमित्तकप्रायश्चित्तानुष्ठानेन समाधानम् । अङ्गमात्रलोप एव तेषां विधानात् । प्रधानलोपे तु पुनः करणमेवेति सिद्धान्तात् । इदं तु नामकीर्तनमुभयस्मिन्नपि निमित्ते समाधायकमिति ततोऽप्यस्योत्कर्षः सिद्धः । नन्वेवं सति प्रायश्चित्तशास्त्राणां कर्मकाण्डस्य च वैयर्थ्यमित्याशङ्कयाह-मुख्येति । मायामोहितचित्तानामल्पदेवतास्वेव महत्त्वबुद्ध्युदयेन तत्तदुपासने प्रवृत्तिः 'मायोपनेत्रप For Private and Personal Use Only

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392