Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 375
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 361 इति । तत्र ब्राह्मणानां त्रिशत्या युगपल्लाभेऽपि प्रत्यहं विंशतिसंख्यानामेव भोजनं मुख्यः कल्पः । पञ्चदश्यामेकैकाक्षरस्यैकैकतिथिनित्यास्वरूपत्वेनैकैकाक्षरघटितानां विंशतिविंशतिनाम्नामपि तत्तद्देवताकत्वेन तत्तत्तिथावेव तत्तद्देवतापूजनस्य युक्तत्वात् । पञ्चदशदिनपर्यन्तं स्वस्यावकाशाभावे सन्त्यन्येऽनुकल्पाः । एवं च सहस्रनामस्वक्षरक्रमाभावेन कतिपयेषां तत्तत्तिथिनित्यादेवताकत्वे मानाभावेन प्राकृतमुख्यकल्पे प्रयोजकस्य तिथ्यक्षरदैवतैक्यस्य विकृतावभावात्तत्प्रयुक्तस्य पञ्चदशभिरेव दिनैः कर्मसमाप्तिरूपस्य नियमस्यातिदेशो न भवति । अत एव सौर्ये चरौ कपालप्रयोजकपुरोडाशस्याभावान्न कपालानामतिदेशः । तस्मादिह सतिसम्भवे प्रयोगविधेर्विलम्बासहिष्णुतयैकस्मिन्नेवाहनि सहस्रभोजनं मुख्यः कल्पः । अनुकल्पेषु प्रकृतौ दशभिः पञ्चभिरित्यनेनैव सिद्धे त्रिंशत्षष्टिरिति पुनर्वचनस्य न्यूनाधिकसंख्यापरिसंख्यार्थकत्वात्प्रत्यहं समसंख्या एव ब्राह्मणा भोजयितव्या इत्यंशस्य विधित्सितत्वावगमेनार्थिकत्वाभावादतिदेशे सिद्धे त्रिदिनपक्षस्य साद्यस्कसारस्वतसत्रयोरग्नि चयनस्येवासम्भवाद्वाधः । शतब्राह्मणानामप्यलाभे तु यथासम्भवं विंशतिदिनादिपक्षाः प्रकृतावनुक्ता अपि न्यायत एवोक्तनियमाविरोधेन लभ्यन्त इति यथायथं पूर्वोत्तरतन्त्रपारदृश्वभिरूहनीयम् । अत्र बौधायनसूत्रोक्तसहस्रभोजनेतिकर्तव्यता समुच्चीयत इति तु तद्व्याख्यायामेव निर्णीतमस्माभिः ॥ २९६ ॥ एवं पञ्चत्रिंशता श्लोकैः पुरुषार्थप्रदायकत्वदर्शनेन रहस्यतमत्वविवेचने समाप्ते क्रमप्राप्तं 'इदं विशेषाच्छ्रीदेव्याः स्तोत्रं प्रीतिविधायक मित्युक्तमर्थं विवेचयति निष्कामः कीर्तयेद्यस्तु नामसाहस्रमुत्तमम् । ब्रह्मज्ञानमवाप्नोति येन मुच्येत बन्धनात् ॥ २९७ ॥ निष्काम इति । निष्कामः विषयकामनारहितः । ब्रह्मज्ञानं जीवब्रह्मणोरभेदभ्रमनिवर्तकं महावाक्यजन्यमात्ममात्रविषयकं निर्विकल्पाख्यं चरमवृत्तिरूपमनुभवात्मकं ज्ञानम्, येन प्राप्तेन ज्ञानेन बन्धनादनादिसिद्धाहन्ताममतादिरूपवासनाजालान्मुच्यते । अयं भाव:- नामकीर्तनस्य नित्यप्रयोगारम्भे उपात्तदुरितक्षयार्थमित्युल्लेखस्य स्थाने यदि श्रीत्रिपुरसुन्दरीप्रीत्यर्थमित्युल्लिख्येत तावतैव ब्रह्मज्ञानलाभ इति । न च कामनोल्लेखे कथं निष्कामप्रयोगतेति वाच्यम् । विषयकामनोल्लेख एव सकामत्वव्यवहारात् । अत एव शिष्टानां परमेश्वरप्रीत्यर्थमित्युल्लिखिते कर्मणि निष्कामत्वव्यवहारः । दुरितहरप्रयोगस्य त्वनेन प्रसङ्गात्सिद्धिः । 'श्रीमातुः प्रीतये नामसहस्रं यस्तु कीर्तये'दित्यनुक्त्वा निष्काम इत्युक्तेरीदृशप्रयोगशीलः कदापि विषयकामप्रयोगं न कुर्यादिति ध्वननाय । तदुक्तम्- 'नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षय मिति ॥ २९७ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392