Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 374
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 360 ललितासहस्रनामस्तोत्रम् धृतेषु । द्विताराभिर्नमोन्तैः कामेश्वर्यन्तैः कामेश्वर्यादित्रिपुरसुन्दर्यन्तैश्चतुर्थ्यन्तैर्नामभिर्जातेषु षोडशमन्त्रेष्वेकैकेन मन्त्रेणैकैकस्मिन्ब्राह्मणे एकैकां तिथिनित्यामावाह्य षोडशोपचारैः पदार्थानुसमयरीत्या पूजयेत् । यथा प्रथमब्राह्मणे 'ह्रीं श्रींकामेश्वर्यै नमः कामेश्वरीं प्रतिपत्तिथिनित्यामावाहयामि स्थापयामि पूजयामि तर्पयामि नमः' इत्यक्षतान् शिरसि निक्षिप्य द्वितीयब्राह्मणे 'ह्रीं श्रीं भगमालिन्यै नमः भगमालिनीं द्वितीयातिथिनित्यामावाहयामि स्थापयामि पूजयामि तर्पयामि नमः' इत्यक्षतान्निक्षिप्य तृतीयादिषोडशान्तेष्वेवमेव नित्यक्लिन्नां भेरुण्डां वह्निवासिनीं वज्रेश्वरीं शिवदूतीं त्वरितां कुलसुन्दरीं नित्यां नीलपताकां विजयां सर्वमङ्गलां ज्वालामालिनीं चित्रां त्रिपुरसुन्दरीं च प्राक्संस्थमुदक्संस्थं वावाह्य पुनरनेनैव प्रवृत्तिक्रमेणासनपाद्यार्ध्याचमनस्नानानि कल्पयित्वा वसनाभरणे प्रत्यक्षे दत्त्वा संस्कृतैः सहेतुकैः सन्तर्प्य गन्धपुष्पधूपदीपान्दत्वा सूपापूपशर्कराज्यपायसफलादिभिर्विशेषान्नैर्भोजयित्वा ताम्बूलदक्षिणानमस्कारप्रार्थनाविसर्जनानि कुर्यात् । आसनादिसर्वोपचारेष्वप्यादौ द्वितारं ततस्तत्तन्मन्त्रास्तदन्ते तत्तन्नामानि चतुर्थीनमोन्तानि तत आसनं समर्पयामि नम इत्याकारकाः करणमन्त्रा ऊहनीयाः । अत्र तैलाभ्यङ्गादिकमावश्यकम् । इति नित्याबलिः | Acharya Shri Kailassagarsuri Gyanmandir अथः द्वितीये तृतीयादौ वा दिवसेऽप्येवमेव सहस्रं ब्राह्मणान्भोजयेत् । 'ह्रीं श्रीं श्रीमात्रे नमः, ह्रीं श्रीं श्रीमहाराज्ञ्यैनमः' इत्यादयो मन्त्राः । श्रीमातरमावाहयामीत्यादिरावाहने मन्त्रशेषः । आसनं समर्पयामि नम इत्यादय आसनादिषु यथालिङ्ग मन्त्रशेषाः । तैलाभ्यङ्गादिकं विभवशालिनामावश्यकम् अन्येषां तु यथाशक्तीति विशेष: । पूजारम्भे पूर्वभागस्य समाप्तावुत्तरभागस्य च पाठादिकं पूर्ववदेव, परन्तु पदार्थानुसमयोऽपि प्रतिशतं प्रतिपञ्चाशद्वा प्रकारान्तरेण वा । सौकर्याय तर्पणान्तान्पुष्पान्तान्वोपचारान्प्रवृत्तिक्रमेण दत्त्वा धूपदीपान्सहस्रेभ्यो दद्यादित्य युज्यते । अश्वप्रतिग्रहनिमित्तकवारुणचतुःकपालपुरोडाशबाहुल्ये तथा दर्शनात् । सहस्रसंख्याकानां ब्राह्मणानां युगपदलाभे तु लब्धमात्रानेव तान्बहुभिर्दिनैर्भोजयन्संख्यां पूरयेत् । संख्यायाः पृथक्त्वनिवेशित्वाविरोधस्य सहस्र भोजनखण्डव्याख्यानेऽस्माभिः समर्थितत्वात् तत्समाप्तिपर्यन्तं स्वयं नियमवान्भवेत् । यत्तु प्रकृतौ स्मर्यते - 1. द्वितीयादिभिः इति पाठः । 'शुक्लप्रतिपदारभ्य पौर्णमास्यवधि क्रमात् । दिवसे दिवसे विप्रा भोज्या विंशतिसंख्यया ॥ दशभि: पञ्चभिर्वापि त्रिभिरेकेन वा दिनैः । त्रिंशत्वष्टिः शतं विप्राः सम्भोज्यास्त्रिशतं क्रमात् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392