Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
367 इति । विष्णुनामभ्यो रुद्रादिनाम्नामुत्तमत्वमपि । तत्रैव यमं प्रति शतानन्दमुनेर्वाक्यम्
'शिवरुद्रादिशब्दान्यो विशिष्टान्वेद मानवः ।
नारायणादिशब्देभ्यस्तं त्वं परिहर प्रभुम् ॥ इति । पराशरपुराणेऽपि
देवताभ्यः समस्ताभ्यः स्रष्टा ब्रह्मा परः स्मृतः । ब्रह्मणश्च महाविष्णुर्वरिष्ठः सर्वपालकः ॥
विष्णोरपि परः साक्षाद्रुद्रः संहारकारकः । इति । सूतगीतायामपि
'त्रिषु रुद्रो वरिष्ठः स्यात्ततोमायी परः शिवः। मायाविशिष्टात्सर्वज्ञात्साम्बः सत्यादिलक्षणः ॥ वरिष्ठो मुनयः साक्षाच्छिवो नात्र विचारणा ।
शिवाद्वरिष्ठो नैवास्ति मया सत्यमुदीरितम् ॥ इति । अत्र मायीतिपदेनेश्वरशिवमहेश्वरसदशिवा अभेदेन गृहीताः ।
'ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते पञ्च महाप्रेताः पादमूले व्यवस्थिताः ॥ इतीश्वराद्भेदेन मध्ये सदाशिवस्य कीर्तनात् ।
'शिवात्मके महामञ्चे महेशानोपबर्हणे । अतिरम्यतले तत्र कशिपुश्च सदाशिवः ॥ भृतकाश्च चतुष्पादा महेशश्च पतद्वहः ।
तत्रास्ते परमेशानी महात्रिपुरसुन्दरी ॥ इति भैरवयामले कामेश्वरातिरिक्तानां षण्णां कीर्तनात् । भृतका भृत्याः । द्रुहिणहरिरुद्रेश्वरा इति तदर्थात् बहुरूपाष्टकप्रस्तारादिष्वप्येवमेव । साम्बा इत्यस्य त्रिपुरसुन्दर्यभिन्नः कामेश्वरशिवोऽर्थः सत्यादिलक्षण इति । तानि च कौमें
'सत्यं सर्वगतं सूक्ष्म कूटस्थमचलं धुवम् । योगिनस्तत्प्रपश्यन्ति महादेव्याः परं पदम् ॥ आनन्दगं परं ब्रह्म केवलं निष्कलं परम् । परात्परतरं तत्त्वं शाश्वतं शिवमव्ययम् ॥ अनन्तप्रकृतौ लीनं देव्यास्तत्परमं पदम् । शुभं निरञ्जनं शुद्धं निर्गुणं दैन्यवर्जितम् ॥ आत्मोपलब्धिविषयं देव्यास्तत्परमं पदम् ।'
For Private and Personal Use Only
Loading... Page Navigation 1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392