Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 380
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 366 __ ललितासहस्रनामस्तोत्रम् लौकिकादिति । लौकिकादित्यध्युष्टैः घटपठादिशब्दप्रयोगेऽप्य- स्त्येव पुण्यम् | 'एकः शब्दः सम्यग्ज्ञातः सुष्ठुप्रयुक्तः स्वर्गे लोके कामधुग्भवतीति वचनात् तादृशशब्दसहस्रोच्चारणमपेक्ष्य विक्रमार्कादिपुण्यश्लोकमनुजवाचकस्यैकस्य शब्दस्योच्चारणं विशिष्टफलदम् । उक्तञ्च विष्णुभागवते 'धुवं ब्रह्मऋषीन्सप्त पुण्यश्लोकांश्च मानवान् । उत्थायापररात्रान्ते प्रयताः सुसमाहिताः ॥ स्मरन्ति मम रूपाणि मुच्यन्ते तेंऽहसोऽखिलात् ।' इत्यादि, तादृशनामसहस्रकीर्तनमपेक्ष्येति लौकिकाद्वचनादित्यस्यार्थः । विष्णुनामेति विष्णूनां नामेति विग्रहः । अनन्तसंख्यानां विष्णूनां मध्ये यस्य कस्यचिदन्यतमस्यापि नामैकवचनादेकमपीत्यर्थः । अनुकीर्तनमित्यस्यानुकीर्त्यमानमित्यर्थः । अनुसृतं कीर्तनं यस्येति विग्रहात् । इदं च पदं शिवनामादिषूत्तरत्राप्यनुवर्तते । शिवानां नाम रुद्रेश्वरशिवमहेश्वरसदाशिवानां नाम । वातुलशुद्ध तत्त्वभेदपटले 'शिवमेकं विजानीयात्सादाख्यं पञ्चधा भवेत् । महेश्वरो महासेनः पञ्चविंशतिभेदवान् ॥' इत्यादिनान्यत्र च तद्भेदा उक्ता अनुसन्धेयाः । अयं भाव:- विष्णूनामानन्त्येष्वेकैव भूमिका । रुद्रादीनां तूत्तरोत्तरं भूमिका भिद्यन्ते । तास्वप्येकैकस्यां रुद्रादेरानन्त्यमेवेति द्योतनाय विष्णुपदसमानयोगक्षेमगुणिवाचकम् । 'महेश्वरो महासेनः पञ्चविंशतिभेदक' इत्यादिनान्यत्र च तद्व्यूहा उक्ता अनुसन्धयाः । रुद्रपदमनुक्त्वा सर्वानुस्यूतं शिवपदं प्रयुक्तम् । तेन विष्णुनाम ततः परं रुद्रनाम ततः परमीश्वरीनामेत्याद्या भूमिका उन्नेयाः । इयांस्तु विशेष:- विष्णूनां तरतमभावापन्नत्वेनानन्त्याद्यथाकथञ्चिदपि तन्नामोच्चारणं समानफलकमेव । शिवानां तु तरतमभावेनाप्यानन्त्यात्परस्परनामसाकर्याच्च तादृशतादृशभूमिकापदार्थानुसन्धानपुरःसरं कीर्त्यमानं नाम तथातथोतममिति । अथवा विष्णुरप्यादित्यादिगणान्तर्गतत्वादिरीत्याप्यनन्तविध एवेति तथापि नामसङ्करेऽर्थानुसन्धानत एव विशेषो वेदितव्यः । तत्तदसाधारणशब्दास्तु यथाकथञ्चित्कीर्त्यमाना अप्युत्तमा एव । अत एव परशिवे शिवादिशब्दा मुख्या इत्युक्तं सूतसंहितायाम् नामानि सर्वाणि तु कल्पितानि स्वमायया नित्यसुखात्मरूपे । तथापि मुख्यास्तु शिवादिशब्दा भवन्ति संकल्पनया शिवस्य ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392