Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 379
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 365 इति । मदः सुरापानादिजन्यः । प्रमादोऽनवधानता । उन्मादो भूताद्यावेशः । उत्स्वप्नो निद्रादशायामभिलापः । स्खलनं किञ्चिद्वक्तुं प्रवृत्तस्य मुखात्तदतिरिक्तशब्दनि:सरणम् । किञ्च अस्ति हि महाभाष्ये प्रसिद्धः कूपखानकन्यायः - तृषानिवृत्तिपङ्कलेपनिरासफलकस्य कूपस्य खननेऽपि जायेत एव तृषापङ्कलेपौ तावपि सिद्धकूपे तज्जन्यजलेन नश्यत एवेति राजन् ङस् पुरुष सु इत्याकारकापशब्दप्रयोगजन्यं पातकं तज्जन्यराजपुरुषेति परिनिष्पन्नरूपप्रयोगेण नश्यतीति स्वीकारात् । तेन न्यायेन प्रकृतेऽपि नामस्मरणनाश्यतावच्छेदकपांपत्वावच्छिन्नत्वाविशेषान्नामस्मरणाङ्गलोपजन्यपातकस्यापि तेनैव नामस्मरणेन नाश इति नानवस्था । अनेनैवाशयेन ग्रन्थान्तेऽस्माभिर्वक्ष्यते-- तथाप्यन्तः सन्तः सदयहृदयानाममहिमा थपूर्वस्तस्मान्मे न खलु खलपापोभयभयम् ।' इति । अपूर्वः स्वाङ्गलोपजनितपातकनिवर्तकरूप: । पूर्वं प्रायश्चित्तादिकर्मसु क्वाप्यक्लृप्त इति तदर्थः । न च श्रौतस्मार्तादिप्रायश्चित्तसाङ्गतायै नामकीर्तनस्योपयोगोऽस्त्विति वाच्यम् । तद्धेतोरेवास्तु तद्धेतुत्वं किं तेनेति न्यायविरोधात् । तदिदं सर्वमुक्तमास्माकीनशिवस्तवे विधा वैधापराधानपि शिव बहुधा तान्समाधातुमाधाप्रायश्चित्तानि वित्ताधिपजनसुविधेयानि वैषम्यभाजि। कच्छेऽपच्छेदमाप्ते पुनरपि यजनं पूर्णयज्ञान्तराये त्वेकाल्पाज्येन पूर्णाहुतिरिति बहुशस्तत्त्वमेतन्न जाने ॥ कृत्यस्याकरणेऽप्यकृत्यकरणेऽप्युक्तं पुराणादिषु प्रायश्चित्तगणे परं शिवशिवेत्युच्चारणं भक्तितः। कृत्वा कर्म महेश तत्प्रतिसमाधानाय चेत्त्वत्स्मृतिः सादावेव कृता न तारयति किं तस्मात्त्यजामि क्रियाः ॥ इति । कर्मणः समाधानाय प्रायश्चित्तं तस्यापि समाधानान्तरं प्रति समाधानमित्यर्थः । तस्मान्नामानुकीर्तनमेव परायणमिति भावः ॥ ३०१ ॥ ननु नामकीर्तनसामान्यस्य पापक्षयजनकत्वे प्रकृते किमायातमित्याशङ्कय सर्वेषां पुण्यवन्नाम्नामविशेषेण पापनाशकत्वेऽपि तमोहराणां खद्योताग्निचन्द्रसूर्यादीनां तेजसामिवास्ति तारतम्यं तत्रैवैतदेव सर्वातिशायीति कथनाय सारालङ्कारेण भूमिकाभेदान्वर्णयति लौकिकाद्वचनान्मुख्यं विष्णुनामानुकीर्तनम् । विष्णुनामसहस्राच्च शिवनामैकमुत्तमम् ॥ ३०२ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392