Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 376
________________ Shri Mahavir Jain Aradhana Kendra 362 www.kobatirth.org ललितासहस्रनामस्तोत्रम् ननु निष्कामप्रयोगशीलस्यापि प्रमादादिभिः सकामप्रयोगे प्रवृत्तौ किं स्यादत आह धनार्थी धनमाप्नोति यशोऽर्थी प्राप्नुयाद्यशः । विद्यार्थी चाप्नुयाद्विद्यां नामसाहस्रकीर्तनात् ॥ २९८ ॥ Acharya Shri Kailassagarsuri Gyanmandir धनार्थीति । विद्यार्थी वेदशास्त्राद्यपरिमितविद्याकामः न तु श्रीविद्याकामः | तत्प्राप्तेः पूर्वमत्राधिकाराभावेनानधिकरिणा कृतस्यापि प्रयोगस्याकृतत्वेन निष्फलत्वात् प्रत्युतानर्थस्मरणाच्च । विषयकामनासामान्याभावो हि निष्कामत्वम् । मध्ये विषयकामनायाः सकृदप्युदये तु निष्कामत्वमेव व्याहन्येत । बुद्धिचाञ्चल्येनोभयथापि प्रयोगकरणे तु निष्कामप्रयोगोऽपि कामनायामेवोपक्षीण इति तत्तत्फलान्येवाप्नोति न ब्रह्मज्ञानमिति भावः । अथवा विद्याशब्दो ब्रह्मज्ञानपर एव | अम्बाप्रीत्यर्थमितिवद्ब्रह्मज्ञानप्राप्त्यर्थमित्युल्लेखेऽपि तल्लभ्यत इत्यर्थः । धनयशसोर्ग्रहणं तु दृष्टान्तार्थम् । यथा धनार्थी धनमाप्नोतीत्यादिरर्थः । एतेनोत्तरोत्तरोत्कृष्टफलकप्रयोगप्रस्तावे सर्वोत्तरप्रयोगानन्तरं धनकामादिप्रयोगकथनमसमञ्जसमिति निरस्तम् ॥ २९८ ॥ ईदृशमिदं स्तोत्रं यं निष्कामप्रयोगमारभ्य ततश्च्युतोऽपि न प्रत्यवैति प्रत्युत यद्यदिच्छति तत्तदाप्नोत्येव । अतः कथमेतेन सदृशमन्यत्स्तोत्रं स्यादित्याह— नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने । कीर्तनीयमिदं तस्माद्भोगमोक्षार्थिभिर्नरैः ॥ २९९ ॥ नानेनेति । भोगप्रयोगाच्च्युतस्य मोक्षं मोक्षप्रयोगाच्च्युतस्य भोगमुभयापेक्षस्योभयं तत्राप्यादौ भोगं पश्चान्मोक्षं प्रददातीत्यर्थः । ब्रह्माण्डपुराणेऽप्युक्तम्– 'तस्मादशेषलोकानां त्रिपुराराधनं विना । नस्तो भोगापवर्गौ तु यौगपद्येन कुत्रचित् ॥ तन्मनास्तद्गतप्राणस्तद्याजी 'तद्गतेहकः । तदात्मैक्येन कर्माणि कुर्वन्मुक्तिमवाप्स्यसि ॥ एतद्रहस्यमाख्यातं सर्वेषां हितकाम्यया ।' 1. तद्रहस्यकः इति पाठः । इति । अथवा पूर्वश्लोकस्य ब्रह्मज्ञानप्रदत्वव्याख्यापक्षे तत्साधनवैराग्यप्रदत्वमनेन श्लोकेनोच्यते । भोगेभ्यो विषयाभिलाषेभ्यो मोक्षो मोचनं तद्वासनात्यागस्तं प्रददातीत्यादिरर्थः । उक्तञ्च अष्टावक्रगीतायाम् - मुक्तिमिच्छसि चेत्तात विषयान्विषवत्त्यजे'ति ॥ २९९ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392