Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
358
ललितासहस्रनामस्तोत्रम् इति फलविधिपूर्वकमुपसंहृतम् । तत्र संशयः किं नित्याबलित्रिशतभोजने समप्रधाने उत्तरत्रिशतभोजनस्य नित्याबलिरङ्गमिति । यदि समप्राधान्यं तदा प्रकृतौ कालार्थसंयोगमात्रार्थकादादिपदादनङ्गस्य त्रिशतभोजनविकारे सहस्रभोजने नित्याबलेरग्नीषोमीयविकारेष्वाग्नेययागस्येव नातिदेशः । अङ्गाङ्गिभावे तु भवत्यतिदेश इति ।
तत्र पूर्वपक्ष:-श्रुतिलिङ्गादेरङ्गताबोधकस्यादर्शनात्समप्राधान्यमेव द्वयोर्वक्तव्यम् । न च 'एवं नित्याबलिं कुर्यादादौ ब्राह्मणभोजनम् । त्रिशतैर्नामभिः पश्चा'दिति पौर्वापर्यविधानात् 'वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेते'त्यत्रेवाङ्गाङ्गिभावसिद्धिरिति वाच्यम् । वाजपेयस्य फलवत्त्वेन प्राधान्यात्तत्प्रकरणे पठितस्य बृहस्पतिसवस्य तदङ्गत्वसम्भवेऽपि प्रकृते द्वयोरपि फलसंयोगाभावेन प्रकरणिनो निश्चयाभावेनाङ्गाङ्गिभावे विनिगमनाविरहात् विश्वजिन्यायेन फलकल्पनस्योभयोरप्याकाङ्क्षाविशेषेण तुल्यतया 'दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेते तिवत्कालार्थस्येव संयोगस्य सिद्धेः । न च एवं यः कुरुते भक्त्येति वाक्येन त्रिशतभोजनेन विधेरानन्तर्यात्फलवत्त्वे बोधिते नित्याबले: फलवदफलन्यायेन नामनहोमानामिवाङ्गसिद्धिरिति वाच्यम् । तत्र हि 'वैश्वदेवीं सांग्रहिणी निर्वपेद्ग्रामकाम' इत्युत्पत्तिविधावेव फलश्रवणेन सांग्रहण्या आमनहोमाङ्गित्वसिद्धावपि प्रकृते भिन्नवाक्योपात्तस्य फलस्याकाङ्क्षावशाद्वाक्यैकवाक्यतयान्वयस्य वक्तव्यतयोभयोरप्याकाङ्क्षावशात्फलसम्बन्धसिद्धेः । एवं यः कुरुत' इत्यत्रैवंपदेनोभयोरनुवादसम्भवात् आनन्तर्यस्योभयाकाङ्क्षातो दुर्बलत्वात् वाच:क्रमवर्तित्वेनावर्जनीयत्वाच्च । अत एवोक्तं 'आनन्तर्यमचोदने'ति । किञ्च नित्याबलिप्रकरणे विहितानां गन्धतैलाभ्यङ्गादिपायसफलादिनिवेदनान्तानामङ्गानामनुवादेन विभवपरत्वेन व्यवस्थाविधिस्त्रिशतभोजनप्रकरणे श्रूयमाणः परो वादसापेक्ष इति तन्निर्वाहायानयोः प्रकृतिविकृतिभावकल्पनया नित्याबलिधर्माणां त्रिशतभोजनेऽतिदेशो वक्तव्यः । तेन प्राकृतानां कामेश्वर्यादिनाम्नां वैकृतैः ककाररूपादिनामभिः शरन्यायेन बाधोऽपि सङ्गच्छते । अङ्गस्य हि प्रधानं प्रति प्रकृतित्वमसम्भवि भावनायां हि भाव्यान्वयोत्तरं कारणान्वयस्तत: कथंभावाकाङ्क्षायां धर्माणामन्वय इति भाव्यन्वयात्पाश्चात्योऽङ्गत्वनिर्णयस्ततोपि पश्चादतिदेशः 'अङ्गं सदतिदिश्यत' इति न्यायादिति स्थितिः । ततश्च त्रिशतभोजनकरणकभावनायां भाव्यकरणयोरन्वयोत्तरं तृतीयक्षणे कथंभावाकाङ्क्षाकाल एव नित्याबले रङ्गत्वं वदता भाव्याकाङ्क्षा वक्तव्या । तदुत्तरक्षणे परस्पराकाङ्क्षालक्षणेन प्रकरणेनोभयोरङ्गाङ्गिभावे सिद्धे त्रिशतभोजनभावनाया निराकाङ्क्षात्वात्ततोऽपि पश्चात्तानानां नित्याबल्यङ्गानां कथं प्रधानेऽतिदेशसिद्धिः । नहि प्रत्येकं स्वस्ववाक्येऽशत्रयपरिपूर्णयोः पौर्णमासीवैमृधयोरिव वाक्यान्तरेणाङ्गाङ्गिभावबोधस्तादृशवाक्यादर्शनात् । प्रकरणादङ्गाङ्गिभावस्य तूक्तरीत्या सम्भवात् । न च त्रिशतभोजनविकृतौ सहनभोजनेऽतिदेशाल्लिङ्गादेवाङ्गत्वसिद्धिरिति
For Private and Personal Use Only
Loading... Page Navigation 1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392