Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
356
ललितासहस्रनामस्तोत्रम् स्वाभाविकमप्यन्यस्य कर्मजन्यमित्यङ्गीकारे बाधकाभावात् सालोक्यादिफलेषु तथादृष्टत्वाच्च । एतेन नित्यसिद्धमीश्वरं प्रकृत्यैव जगदुत्पत्त्यादेराम्नानात्तन्त्रोपासकानामसन्निहितत्वान्न जगद्व्यापारकर्तृत्वं सम्भवतीति परास्तम् । उपासकानामधिकारस्यागन्तुकत्वेन नित्यसिद्धाधिकारकथनप्रकरणे प्रकृतत्वात्सन्निहितत्वयोर्युक्तत्वात् । श्रूयते चोपासकानां साम्राज्यम्- 'आप्नोति स्वाराज्यम् । सर्वमस्मै देवा बलिमावहन्ति । तेषां सर्वेषु लोकेषु कामचारो भवतीत्यादिश्रुतिषु। । न चैतत्सावग्रहसाम्राज्यपरम्, सामोचे मानाभावात् । न च' आप्नोति मनसस्पति मित्युत्तरश्रुत्येश्वरस्य प्राप्तव्यत्वेन परिशेष एव प्रमाणमिति वाच्यम् । स्वाराज्यरूपेश्वरासाधारणधर्मप्राप्तौ सत्यामभेदेन धर्मिप्राप्तिरेव भवतीत्याशयेन तस्या अपि श्रुतेरस्मदनुकूलत्वात् । एवं 'वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिर्भवती'त्यादयः श्रुतयः सर्वा अप्यत्रैवानुकूला नौपनिषदानाम् । स्पष्टमेव चाथर्वणशौनकशाखीया उपासकस्य विश्वसष्ट्यादिविधायकत्वमामनन्ति । 'सर्वं सर्वस्य जगतो विधाता भर्ता हर्ता विश्वरूपत्वमेतीति । अथ तादृश उपासकधौरेय ईश्वराद्भिद्यते न वा । भवन्मतेऽपि सायुज्याख्यां चतुर्थी मुक्तिं गतः कैवल्याख्यां पञ्चमी मुक्तिं प्रेप्सुर्भिद्यते न वा । न चास्मन्मते तस्य जगद्व्यापाराभावेन तत्सत्त्वासत्त्वाभ्यां भेद इति वाच्यम् । अस्मन्मतेऽपि जगद्व्यापारवत्त्वेपि समनस्कत्वाऽमनस्कत्वाभ्यां भेदसम्भवात् । न चोक्ताथर्वणमन्त्रप्रथमार्धर्चे 'परिस्रुता हविषा [पा] वितेन प्रसङ्कोचे। गलिते वैमनस्क' इत्यत्र विमनस्कत्वोक्तिरुपासकस्योच्यत इति वाच्यम् | सङ्गकोचे प्रगलिते सतीत्युक्त्या 'घृणा शङ्का भयं लज्जेत्यादिकुलार्णवोक्तपाशाष्टकस्य चित्तवृत्तिविशेषरूपस्यानुदयप्रयुक्तत्वेन तदुक्तेर्गौणत्वात् । यच्च भोगामात्रसाम्यलिङ्गाच्चे ति सूत्रे तैः श्रुतिरुपन्यस्यते-'तथैतां देवतां सर्वाणि भूतान्यवन्त्येवंविदं सर्वाणि भूतान्यवन्ति ते नो एतस्यै देवतायै सायुज्यं सलोकतां जयतीति, सापि भेदव्यपदेशपरा सत्युक्तमर्थमेव साधयति । किञ्च अधिकारः सुखसाधनं न वा । अन्त्ये सर्वलोकानां स्वर्गाद्यधिकारसाधनीभूतेषु कर्मसु प्रवृत्त्यनापत्ति: । आद्दे जगद्व्यापारस्याप्यधिकारत्वाविशेषेण सुखसाक्षात्काररूपभोगमात्रसाम्यादेव लिङ्गान्निरवग्रहमेवैश्वर्यमुपासकस्य सिद्ध्यतीति कथं तेन हेतुना तदभावः साध्यत इति विचारयतराम् । न चैकोऽधिकारः कथं युगपद्बहूनामुपकाराय स्यादिति वाच्यम् । सत्रयागे एकस्यैव प्रक्षेपस्य बहुयजमानोपकारकत्वस्य एकस्यैव ब्रह्मलोकस्य युगपदने कोपासकोपकारतायाश्च दर्शनात् । न चेयं षष्ठीमुक्तिरापद्यतेति वाच्यम् । इष्टत्वात् । युक्तं चैतत् । सालोक्यादिसायुज्यान्तमुक्तिषूत्तरोत्तरोत्कर्षवत्तदुत्तरभूमिकारूपत्वेन कैवल्यानन्तरपूर्वत्वेन चास्या न्यायसिद्धत्वात् । ननु पञ्चविधा मुक्तिरिति तान्त्रिकव्यवहारस्य का गतिरिति चेत् । सूतसंहितादिषु 'मुक्तिश्चतुर्विधा ज्ञेये त्यादिव्यवहाराणां भवन्मते या गतिः सैव कैवल्यसायुज्ययोः । अवान्तरभेदाविवक्षयेति चेत् सावग्रह
For Private and Personal Use Only
Loading... Page Navigation 1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392