Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 369
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 355 मामुष्मिकभोगस्यावश्यकत्वात् । अत एव भोगानितिपदमप्यहिकामुष्मिकभोगद्वयपरं व्याख्येयम् । तादृशद्विविधभोगयोरेव पुत्रादिसाहित्यं न पुनर्मोक्षेऽपि स्वस्वरूपमात्रावस्थानरूपे तस्मिंस्तदसम्भवादिति मन्तव्यम् ॥ २९४ ॥ इदानीमीदृशफलापेक्षयाधिकस्याभावादस्मिन्नेव फले पूर्वस्मादल्पदिनसाध्यं प्रयोगान्तरमाह यः सहस्रं ब्राह्मणानामेभिर्नामसहस्रकैः । समर्च्य भोजयेद्भक्त्या पायसापूपषड्रसैः ॥ २९५ ॥ यः सहसमिति । द्वाभ्याम् । इह यावज्जीवपदादेरनुवृत्तिः । एवं यः कुरुते भक्त्या जन्ममध्ये सकृन्नर' इत्यादिभिश्चोदकत: प्राप्तैर्विधिभिरेव निराकाङ्क्षीकृतवान् । ब्राह्मणानां विद्याविदुषामेव नान्येषाम् । 'तदधीते तद्वेदेति ब्रह्मपदादणि तथैव सिद्धेः । पायसं पयोबहुलमत्यल्पतण्डुलकं परमान्नम् । अपूपाः पिष्टविकाराः पूरिकादयो बहुविधाः भोजनकुतूहलादिसूदशास्त्रीयग्रन्थेषु विविच्य वर्णिताः षट्संख्या रसा येषु तैः सितानिम्ब्वादिभिस्तन्मिश्रितैरन्यैश्च पदार्थैः । तिक्तस्यापि कारवेल्लफलादेर्भक्षणीयत्वात्षड्रसैरित्युक्तम् ॥ २९५ ॥ तस्मै प्रीणाति ललिता स्वसाम्राज्यं प्रयच्छति । स्वस्य साम्राज्यमत्यन्ताभेदः कैवल्यमित्यर्थः । इदञ्च 'जगद्व्यापारवर्ज प्रकरणादसन्निहितत्वाच्चे त्यौपनिषदानामधिकरणमनुरुध्योक्तम् । वस्तुतस्तु साम्राज्यशब्दो जगव्यापारस्यैव रूढ्याभिधायकः तत्प्रदत्वमेव चेह विवक्षितम्, श्रुतहानाश्रुतकल्पनयोरभावात् । अत एव पूर्वप्रयोगादेतस्य फलाधिक्यमपि । विद्याविदुषां ब्राह्मणानां सहस्रस्याशीराशेरीदृशमेव हि फलं योग्यं भवति । न चैवं सत्यनेकैर्भक्तैर्योगपद्येनेदृशप्रयोगानुष्ठाने सर्वेषामेकस्मिन्काल एव जगद्व्यापारे स्वातन्त्र्यस्यावश्यकतया 'परस्परवैमत्याज्जगद्विलोपापत्तिरिति तदधिकरणोक्तो दोष: प्रसज्यत इति भेतव्यम् । सृज्यमानप्राणिकर्मानुसारेणैव भगवतः प्रवृत्तिरिति तैरेवाङ्गीकारात् । अन्यथा वैषम्यनैघृण्यापत्तेरपरिहार्यत्वात् । तथा च ब्रह्मसूत्रम्- 'वैषम्यनैपुण्ये न सापेक्षत्वात्तथाहि दर्शयतीति । ततश्च कर्मानुसारेण जायमाना प्रवृत्तिर्बहूनां समनस्कानामप्येकरूपैव सम्भवेदति न वैमत्यम् । न च परस्परेच्छानुसारेण व्याप्रियमाणानां स्वातन्त्र्यभङ्गः । स्वेच्छानुसारिप्रवृत्तिमत्त्वरूपस्वातन्त्र्यस्य सर्वेष्वविघातात् । अत एव वासिष्ठरामायणे कुन्ददन्तोपाख्याने माथुराणामष्टानां भ्रातॄणां सप्तद्वीपाया एकस्या एव भुवो युगपदाधिपत्यमम्बावरलब्धं वर्णितं सङ्गच्छते । सृज्यमानप्राणिकर्मानुसारेणापतत आर्थिकस्येच्छासंवादस्य तदविघातकत्वात् । न चेश्वरस्य स्वाभाविकं जगत्साम्राज्यं न शक्रादिपदवत्कर्मजन्यमिति कथमन्यस्य स्वभावोऽन्यं गच्छेदिति वाच्यम् । ईश्वरस्य For Private and Personal Use Only

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392