Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 367
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 353 सौभाग्यभास्कर-बालातपासहितम् इति भविष्योत्तरवचनेनैकप्रयोगतासूचनात् । 'अष्टमीनवमीयुग्मे' इति पूर्वोक्तवचनाच्च । अत एव नवरात्रात्कर्मान्तरमिदमिति सिद्धान्तः । अस्यां च पूजायां सर्वजातीयानामधिकारः । तदुक्तमेतत्कर्मोपक्रम एव भविष्योत्तरे 'पूजनीया जनैर्देवी स्थाने ने स्थापुरे पुरे। गृहे गृहे शक्तिपरैर्गामे ग्रामे वने वने ॥ स्नातैः प्रमुदितैर्हृष्टैर्ब्राह्मणैः क्षत्रियैर्विशैः । शूद्रभक्तियुतैर्लेच्छैरन्यैश्च भुवि मानवैः । स्त्रीभिश्च कुरु शार्दूल तद्विधानमिदं शृणु ॥ इत्यादि । शक्तिपरैश्चण्डीपरायणैः । म्लेच्छैः शबरकिरातपुलिन्दादिभिः । अन्यैरनुलोमप्रतिलोमजैः । परन्तु स्वकुलाचारमनुरुध्यैव पूजयेत् । तदुक्तं व्रतखण्डे 'यस्य यस्य हि या देवी कुलमार्गेण संस्थिता । तेन तेन च सा पूज्या बलिगन्धानुलेपनैः ॥ नैवेद्यैर्विविधैश्चैव पूजयेत्कुलमातरम् ॥ इति । नन्वेवं निर्णीतायामपि महानवम्यां तस्य शब्दस्य कालपरत्वेन प्रकृतविधौ कस्य कालस्य महानवमीपदेनोपादानम् । उक्तरीत्याष्टमीनवम्योर्महानवमीत्वात् । यदापि दर्शपूर्णमासनवरात्रादिपंदवत्कर्मपरोऽयं महानवमीशब्दस्तदाष्टमीनवमी पूजाद्वयस्यैककर्मत्वेऽपि तस्य वासन्तशारदभेदेन दैविध्यात्प्रकृते कस्य कर्मण उपादानम् । न चोभयोरप्युपादानम् । एकधाधिकरणे वैधपदस्यानियतानेकार्थपरताया निरस्तत्वादिति चेत् । __ अत्र ब्रूमः-महानवमीशब्दस्य कर्मपरत्वे एकस्यैवाग्निहोत्रस्य सायंप्रातर्भेदेनावृत्तिक्द्वसन्तशरद्भेदेनावृत्तिमात्राङ्गीकारेणानेकार्थत्वाभावात् । कालपरत्वे तु चत्वारोऽपि काला इह विधौ गृह्यन्ते । एकधाधिकरणे ह्यनियतैकार्थकस्यैव निरासो न पुनर्नियतानेकार्थकस्येत्यदोषात् कथमन्यथैकस्य मन्त्रस्यानेकार्थेषु विनियोगः । न च विधिगतस्यैव पदस्यानेकार्थता न युक्तेति परिभाषास्ति । 'न कलशं भक्षये'दिति विधिवाक्येऽपि कलञ्जपदस्य बहुधा व्याख्यानदर्शनात् । आन्त्रपरत्वेन भङ्गापरत्वेन कण्ठशोधकौधपरत्वेन चेति । तस्माद्यावज्जीवमेतेषु चतुर्ध्वपि दिवसेषु चक्रमध्ये बिन्दुस्थानं गच्छतीति तादृशीं श्रीदेवी त्रिपुरसुन्दरी यः कश्चन भक्तः स्वस्वकुलानुसारैणार्धरात्रे सहस्रनामभिः पूजयति तस्य चतुर्विधापि मुक्ति: कर एव स्थिता । अतिसुलभेत्यर्थः । तत्रैकदिनेऽर्चकस्य सालोक्यमात्रम्, दिनद्वये चेत्सारूप्यमपि, दिनत्रये चेत्सामीप्यमपि, चतुर्ध्वपि दिवसेषु चेत्सायुज्य 1. 'क्षत्रियैर्नृपैः । वैश्यैः शूद्रभक्तियुक्तैर्लेच्छैरन्यैश्च मानवैः ॥ इति पाठान्तरम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392