Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 365
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 351 इति वचनात् । तोयं पूर्वाषाढा । अस्या एव नक्षत्रद्वयान्यतरयोगे महानवमीत्यपि संज्ञान्तरम् । तदुक्तं नृसिंहप्रासादे 'आश्वयुक्शुक्लपत्रे तु याष्टमी मूलसंयुता । पूर्वयाषाढया सार्धमृक्षद्वययुतापि वा ॥ सा महानवमी नाम त्रैलोक्येऽपि सुदुर्लभा ।' इत्ति । भविष्योत्तरेऽपि 'कन्यागते सवितरि शुक्लपक्षेऽष्टमीयुता । मूलनक्षत्रसंयुक्ता सा महानवमी स्मृता ॥ इति । विश्वरूपाचार्येरपि 'आश्वयुक्शुक्लपक्षे तु याष्टमी मूलसंयुता । यदि स्यादविविखापि सा महानवमी स्मृता ॥ इति । अत्राष्टमीमूलाभ्यां संयुता या तिथि: सा महानवमीति व्याख्यया नवम्येव महानवमीत्यर्थ इति केचित् । तदुक्तं भविष्योत्तरादिवचनविरोधादनादेयम् । सप्तमीवेधबोधकरविविद्धापदस्य रविवासरयुक्तेत्यर्थवर्णनापत्तेश्च । अनयोश्च परस्परविद्धत्वमपि प्रशस्तम् । तदुक्तं विष्णुधर्मोत्तरे 'अष्टम्या नवमी युक्ता नवम्या चाष्टमी युता। अर्धनारीश्वरप्राया उमामाहेश्वरी तिथिः ॥' इति | भोजराजीयेऽपि 'अष्टम्यां पूजयेद्रो नवम्यां शक्तिरिज्यते । उमाया नवमी प्रोक्ता हरस्य तिथिरष्टमी ॥ द्वयोर्योगे महापुण्या उमामाहेश्वरीतिथिः । तत्रैव सप्तमीवेधाभावो नवमीविद्धाष्टमीग्रहणे हेतुरुक्त: न दिवा न निशापि च विष्टिहता न च सप्तमि शल्यलवोपहता। यदिवाष्टमिशेषभवा नवमी विबुधैरपि पूज्यतमा नवमी ॥ इति । विष्ट्या सप्तमिशल्यलवेन चोपहता न कार्या । अष्टमीशेषे नवमी चेत्सुराणामपि पूज्या अवमी च न भवतीत्यर्थः । अयमेव प्रकारो वासन्तनवरात्राष्टमीनवम्योर्निर्णयेऽपि । नवरात्रप्रदीप तथाभिधानात् । विश्वरूपाचार्यैरपि नवरात्रद्वयं प्रकम्य 'अष्टमीनवमीयुग्मे शिवक्षेत्रे महोत्सवः । शिवशक्त्योः सामरस्यात्पक्षयोरुभयोरपि ।' For Private and Personal Use Only

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392