Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 366
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 352 ललितासहस्रनामस्तोत्रम् इत्युक्तेः । शारदो वासन्तश्चेति नवरात्रस्य द्वौ पक्षौ तयोरुभयोरपीति तदर्थात् । अष्टम्यां च देवीपूजोक्ता देवीपुराणे 'आश्वयुक्शुक्लनवमी त्वष्टमी मूलसंयुता । सा महानवमी तस्यां जगन्मातरमर्चयेत् ॥ इति । नवम्यां चोक्ता भविष्योत्तरपुराणे 'नवम्यां श्रीसमायुक्ता देवैः सर्वैः सुपूजिता । जघान महिषं दुष्टमवध्यं देवतादिभिः ॥ लब्ध्वाभिषेकं वरदा शुक्ले चाश्वयुजस्य तु । तस्मात्सा तत्र सम्पूज्या नवम्यां चण्डिका बुधैः ॥ महत्त्वं हि यतः प्राप्ता अत्र देवी सरस्वती । अतोऽथ महती प्रोक्ता नवमीयं सदा बुधैः ॥ इति । इयं च पूजा निशीथ एव । 'आश्विने मासि मेघान्ते महिषासुरमर्दिनीम् । देवीं च पूजयित्वा ये अर्धरात्रेऽष्टमीषु च ॥ इति देवीपुराणात् । शक्तिरहस्येऽपि कन्यासंस्थे रवावीशां शुक्लाष्टम्यां प्रपूजयेत् । सोपवासो निशार्धे तु महाविभवविस्तरैः ॥ इति | विश्वरूपाचार्यैरपि अष्टमीरात्रिमासाद्य पूजां गृह्णाति पार्वती । निशार्धे पूजिता देवी वैष्णवी पापनाशिनी ॥ तस्मात्सर्वप्रयत्नेन ह्यष्टम्यां निशि पूजयेत् ।' इति । यत्तु भविष्योत्तरे 'तत्राष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी । प्रादुर्भूता महाघोरा योगिनीकोटिभिः सह ॥ अतोऽथ पूजनीया सा तस्मिन्नहनि मानवैः ।' इति वचनं तत्राह:पदमहोरात्रपरम् । एतद्बलादष्टम्यामहन्येव पूजनमिति त्वन्धानां प्रलापः । नवम्यां तु दिवैव पूजयेदित्यप्याहुः । इदञ्च पूजाद्वयं प्रत्येकमुत्पन्नमपि परस्परसापेक्षमेव फलजनकम् | 'अष्टम्यां च नवम्यां च जगन्मातरमम्बिकाम् । पूजयित्वाश्विने मासि विशोको जायते नरः ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392