Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 361
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर - बालातपासहितम् इति । एवमनुपासकानामपि रक्षकम्, उपासकान् रक्षेदिति किमु वक्तव्यमित्याशयेन मध्य एव निगमयति सार्धेन ॥ २८३-२८४ ॥ अथात्युत्कृष्टधर्मप्रदं पूर्वोक्तराशिषट्कादिक्रमेण बुद्ध्याप्यपरिच्छेद्यफलकं योगमाह चतुर्भिः– एभिर्नामसहस्रैस्तु श्रीचक्रं योऽर्चयेत्सकृत् । पद्यैर्वा तुलसीपुष्यैः कलारैर्वा कदम्बकैः ॥ २८५ ॥ Acharya Shri Kailassagarsuri Gyanmandir इति । यत्तु तत्रैव एभिरिति । नामसाहस्रैरिति बहुवचनं नाम्नां प्रत्येकं करणत्वद्योतनाय । लक्षपूजादौ पुनःपुनरावृत्तिध्वननार्थं च । नामानि प्रातिपदिकानि सहस्रं येषु श्रीमात्रे नम इत्यादिललिताम्बिकायै नम इत्यन्तेषु चतुर्थीनमोन्तमन्त्रेषु तैर्नामसाहस्रैरिति वा । सम्प्रदायाच्च पुष्पप्रक्षेपावृत्तिः । तेन 'चतुर्लक्ष्यणुभिर्वक्त्रं', 'चतुर्भिरभ्रिमादत्त' इत्यादाविव समुच्चयो माभूत् । अत्र पद्यकलारोत्पलानां परस्परवैलक्षण्यमवान्तरजातिभेदेनोह्यम् । तुलस्याः पुष्पैः फुल्लमञ्जरीभिः न तु तत्पत्रैः । सुन्दरीविषये तुलसीनिषेधस्यैतद्बलादेव पत्रपरत्वौचित्यात् । अत एव स्पष्टमुक्तं नीलातन्त्रे 'नानोपहारबलिभिर्नानापुष्पैर्मनोरमैः अपामार्गदलैर्भृङ्गैस्तुलसीदलवर्जितैः 11 पूजनीया सदा भक्त्या नृणां शीघ्रफलाप्तये ।' देवीपूजा सदा शस्ता जलजैः स्थलजैरपि । विहितैश्च निषिद्धैर्वा भक्तियुक्तेन चेतसा ॥' 347 इति । तत्र निषिद्धस्वीकारो भक्त्यावश्यकत्वध्वननाय । 'पुष्पाणामप्यलाभे तु तत्पत्रैरयेच्छिवा' मिति कालीपुराणवचनं नित्यकर्मपरम् । काम्ये कर्मणि प्रतिनिध्यभावस्य षष्ठाधिकरणसिद्धत्वात् । सुन्दरीविषये तुलसीनिषेधस्यैतद्बलादेव पत्रपरत्वौचित्यात्पत्रान्तरपरं च । पद्मादिषु तु सुसदृशत्वात् पूरणायकलारादीनां ग्रहणं युज्यते । विष्णुना नेत्रकमलस्य तत्पूरणार्थमुपादानस्य लिङ्गपुराणे कथनाल्लिङ्गात् । कदम्बकैः अविशेषाद्विविधैरपि ॥ २८५ ॥ चम्पकैर्जातिकुसुमैर्मल्लिकाकरवीरकैः । उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः ॥ २८६ ॥ For Private and Personal Use Only जाति कुसुमैरित्यत्र 'ड्यापोः संज्ञाछन्दसोर्बहुल' मिति ह्रस्वः । जाती मालती । मल्लिका विचकिलम् । करवीरं हयमारः । कुन्दं माध्यम् । केसरं काश्मीरम् | पाटलं श्वेतरक्तं तिलपुष्पसदृशम् || २८६ ॥

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392