Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 362
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 348 ललितासहस्रनामस्तोत्रम् अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः । तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः ॥ २८७ ॥ ___ सुगन्धिपदमहिफेनाहिदुर्गन्धिकुसुमानामेव निरासाय । निर्गन्धानामपि जपादीनां रक्तानां देवीप्रियत्वात् । 'गन्धस्येदुत्पूतिसुसुरभिभ्य इति समासान्तम् । माधवी वासन्ती । मुखपदेन पुन्नागंबकुलादीनां ग्रहणम् । एतेषामप्यवान्तरतारतम्यमादित्य-पुराणकालिका- पुराणयोर्द्रष्टव्यम् । फेत्कारिणीतन्त्रे तु विशेष: पुष्पं वा यदि वा पत्रं फलं नेष्टमधोमुखम् । दुःखदं तत्समाख्यातं यथोत्पन्नं तथापयेत् ॥ अधोमुखार्पणं नेष्टं पुष्पाञलिविधिं विना ॥ लक्षपूजादिषु पुनः पुष्पमेकैकमर्पयेत् । समुदायेन चेत्पूजा लक्षपुष्पार्पणं न तत् ॥ इति । अत्र हिः द्वन्द्ववत्तदपवादकैकशेषोपि साहित्यार्थकः । 'एकादशप्रयाजान्यजती' त्यत्र सहितेष्वेवैकादशत्वस्य निवेशो न प्रातिस्विकमिति सिद्धान्तात् । ततश्च सुगन्धिकुसुमैरित्येकशेषवशान्मल्लिकाकरवीरयोः केतकीमाधव्यादीनां च द्वन्द्ववशाच्च समुच्चयेन करणत्वं मा प्रसाङ्क्षीदिति तदपवादाय पूर्वश्लोकयोर्वाकारः । सोऽपि च प्रतिपुष्पमन्वयितव्य इति ध्वनयितुं द्विस्त्रिः प्रयुक्तः । तथा च निरपेक्षकरणताबोधकतृतीयाविभक्तयोऽपि व्रीहियवन्यायेनानुगृहीता भवन्ति । महेश्वरः पञ्चप्रेतेषु चतुर्थः तस्याप्यसर्वज्ञत्वाद्वक्तुमसामर्थ्य पूर्वोक्तराशिषट्कादिगुणनोपायेन मनुष्याणां ज्ञातुं वक्तुं च सामर्थ्याभाव: कैमुतिकन्यायेन सिद्ध इति फलस्यानवधिकत्वध्वनिः ॥ २८७ ॥ अत एव सर्वजैकपरिच्छेद्यमित्याह सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम् । अन्ये कथं विजानीयुर्ब्रह्माद्याः स्वल्पमेधसः ॥ २८८ ॥ सेति । ब्रह्मादीनामज्ञातृत्वे परिकरालङ्ककारेण हेतुगर्भं विशेषणम् । स्वल्पमेधस इति स्वल्पा मेधा धारणात्मिका बुद्धिर्येषां ते । 'नित्यमसिच् प्रजामेधयो रिति समासान्तः । ननु राशिषट्कवेद्यफलकं कठिनतरं प्रयोगमपेक्ष्यास्य पुष्पार्पणप्रयोगस्य सुलभत्वेन ततोऽप्यनवधिफलकत्वे कठिनतरप्रयोगे कस्यापि प्रवृत्त्ययोगादननुष्ठानलक्षणमप्रामाण्यं प्रसज्येतेति चेत् भ्रान्तोऽसि । कठिनतरप्रयोगस्यानिशनित्यादिपदघटितविधिबोध्यत्ते नाकरणे प्रत्यवायबोधनेन नित्यत्वात् । नित्याकरणे For Private and Personal Use Only

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392