________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
348
ललितासहस्रनामस्तोत्रम् अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः ।
तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः ॥ २८७ ॥ ___ सुगन्धिपदमहिफेनाहिदुर्गन्धिकुसुमानामेव निरासाय । निर्गन्धानामपि जपादीनां रक्तानां देवीप्रियत्वात् । 'गन्धस्येदुत्पूतिसुसुरभिभ्य इति समासान्तम् । माधवी वासन्ती । मुखपदेन पुन्नागंबकुलादीनां ग्रहणम् । एतेषामप्यवान्तरतारतम्यमादित्य-पुराणकालिका- पुराणयोर्द्रष्टव्यम् । फेत्कारिणीतन्त्रे तु विशेष:
पुष्पं वा यदि वा पत्रं फलं नेष्टमधोमुखम् । दुःखदं तत्समाख्यातं यथोत्पन्नं तथापयेत् ॥ अधोमुखार्पणं नेष्टं पुष्पाञलिविधिं विना ॥ लक्षपूजादिषु पुनः पुष्पमेकैकमर्पयेत् ।
समुदायेन चेत्पूजा लक्षपुष्पार्पणं न तत् ॥ इति । अत्र हिः द्वन्द्ववत्तदपवादकैकशेषोपि साहित्यार्थकः । 'एकादशप्रयाजान्यजती' त्यत्र सहितेष्वेवैकादशत्वस्य निवेशो न प्रातिस्विकमिति सिद्धान्तात् । ततश्च सुगन्धिकुसुमैरित्येकशेषवशान्मल्लिकाकरवीरयोः केतकीमाधव्यादीनां च द्वन्द्ववशाच्च समुच्चयेन करणत्वं मा प्रसाङ्क्षीदिति तदपवादाय पूर्वश्लोकयोर्वाकारः । सोऽपि च प्रतिपुष्पमन्वयितव्य इति ध्वनयितुं द्विस्त्रिः प्रयुक्तः । तथा च निरपेक्षकरणताबोधकतृतीयाविभक्तयोऽपि व्रीहियवन्यायेनानुगृहीता भवन्ति । महेश्वरः पञ्चप्रेतेषु चतुर्थः तस्याप्यसर्वज्ञत्वाद्वक्तुमसामर्थ्य पूर्वोक्तराशिषट्कादिगुणनोपायेन मनुष्याणां ज्ञातुं वक्तुं च सामर्थ्याभाव: कैमुतिकन्यायेन सिद्ध इति फलस्यानवधिकत्वध्वनिः ॥ २८७ ॥ अत एव सर्वजैकपरिच्छेद्यमित्याह
सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम् ।
अन्ये कथं विजानीयुर्ब्रह्माद्याः स्वल्पमेधसः ॥ २८८ ॥ सेति । ब्रह्मादीनामज्ञातृत्वे परिकरालङ्ककारेण हेतुगर्भं विशेषणम् । स्वल्पमेधस इति स्वल्पा मेधा धारणात्मिका बुद्धिर्येषां ते । 'नित्यमसिच् प्रजामेधयो रिति समासान्तः । ननु राशिषट्कवेद्यफलकं कठिनतरं प्रयोगमपेक्ष्यास्य पुष्पार्पणप्रयोगस्य सुलभत्वेन ततोऽप्यनवधिफलकत्वे कठिनतरप्रयोगे कस्यापि प्रवृत्त्ययोगादननुष्ठानलक्षणमप्रामाण्यं प्रसज्येतेति चेत् भ्रान्तोऽसि । कठिनतरप्रयोगस्यानिशनित्यादिपदघटितविधिबोध्यत्ते नाकरणे प्रत्यवायबोधनेन नित्यत्वात् । नित्याकरणे
For Private and Personal Use Only