Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 351
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 337 उभयानि कुर्वतामेवेदृशेषु काम्येष्वधिकार इति तु तन्त्रान्तरसिद्धोऽर्थो न विस्मर्तव्यः । अस्य कर्मण आवृत्तिरपि क्रियमाणा न दुष्यतीति तूक्तमेव प्राक् ॥ २५६ ॥ एवं सर्वरोगप्रशमनमिति विशेषणचतुष्टयं विविच्य क्रमप्राप्तं सर्वज्वरार्तिशमनं प्रयोगं विवेचयति ज्वरात शिरसि स्पृष्ट्वा पठेन्नामसहस्रकम् । तत्क्षणात्प्रशमं याति शिरस्तोदो ज्वरोऽपि च ॥ २५७ ॥ ज्वरेणार्तं पीडितं स्पृष्ट्वा हस्तं ददान एव तत्क्षणात्सद्यः शिरसस्तोदो व्यथा । ज्वरप्रयुक्तपीडामात्रोपलक्षणमिदम् । ___ प्रयोगविधिस्तु-ज्वराख्यनिमित्तोद्भवदिवसे कृताह्निकः शुचौ देशे इत्यादिसंकल्पान्तं कुर्यात् । संकल्पे यथालिङ्गमूहः । ज्वरहरं प्रयोगमिति नामोल्लेखः । ततः स्वदक्षिणभागे उदङ्मुखं ज्वरार्तं निवेश्य भस्मना मन्त्रेण वा स्नापयित्वा पूर्वभागं पठित्वा ज्वरार्तस्य शिरसि हस्तं दत्त्वा तं तथैव स्पृशन्नेव मध्यभागं पठित्वा हस्तं निष्कास्योत्तरभागं पठित्वा ब्राह्मणभोजनादिकं कुर्यात् । स्वार्थप्रयोगे तु स्वशिरस्येव हस्तदानम् । यावत्फलोदयमावृत्तिरपि सम्प्रदायसिद्धा, 'आवृत्तिरसकृदुपदेशात्' इत्यधिकरणन्यायसिद्धा च । आवृत्तिपक्षे प्रथमभागं पठित्वा मध्यभागमेव यथासंकल्पमावर्त्य चरमभागं पठेदिति विशेषः । एवमुत्तरत्र प्रयोगविधिरूह्यः ॥ २५७॥ ज्वरादिसाधारण्येन रोगमात्रहरं प्रयोगान्तरमाह सर्वव्याधिनिवृत्त्यर्थं स्पृष्ट्वा भस्म जपेदिदम् । तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात् ॥ २५८ ॥ सर्वेति । सर्वे च ते व्याधयश्च, सर्वेषां त्याधय इति वा । स्पृष्ट्वा स्पृशन्नेव । इदं नामसहस्रं तस्य मन्त्रितस्य भस्मनो धारणादेव उद्धृलनमात्रात् ॥ २५८ ॥ अथ क्रमप्राप्ते दीर्घायुष्यप्रदायकमित्यत्रोक्ते ग्रहविषबाधानाशने उद्दिश्य द्वौ प्रयोगावाह द्वाभ्याम् जलं संमन्त्र्य कुम्भस्थं नामसाहस्रतो मुने। अभिषिञ्चेद् ग्रहग्रस्तान्ग्रहानश्यन्ति तत्क्षणात् ॥ २५९ ॥ संमन्त्र्य कुम्भमुखे हस्तं क्षिपन्नेव स्तोत्रं पठित्वा । मुने अगस्त्य । अभिषिञ्चेत्स्नापयेत् । मन्त्रितेनैव जलेनेति शेषः । ग्रहाः बालग्रहाद्याः पिशाचा दुष्टस्थानीया नवग्रहाश्च तैर्ग्रस्तान् । पीडया मुमूर्षुकृतान् ॥ २५९ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392