Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
342
ललितासहस्रनामस्तोत्रम् यो राजा कुरुते वैरं नामसाहस्रजापिनः ।
चतुरङ्गबलं तस्य दण्डिनी संहरेत्स्वयम् ॥ २७२ ॥ चतुरङ्गबलं हस्त्यश्वरथपादातरूपं सैन्यम् । दण्डिनी दण्डनाथा या वाराही तन्त्रेषु प्रसिद्धा । संहरेत् सैनिकानां परस्परविद्वेषणेन कतिपयानामुच्चाटनेन नाशनेन च सम्भूयैककार्यकारित्वाभावो बलसंहारस्तं कुर्यात् । एवं षट्कर्माण्युक्तानि तानि च 'शान्तिर्वश्यं स्तम्भनं च विद्वेषोच्चाटमारणमिति शाबरचिन्तामणावुक्तानि । अत्रान्यान्येवोच्यन्ते परन्तु तेषां यथायथान्योऽन्यमन्तर्भावो द्रष्टव्यः । तदुक्तं तन्त्रराजे
'रक्षा शान्तिर्जपो लाभो निग्रहो निधनं तथा ।
षट्कर्माणि तदंशत्वादन्येषामपृथस्थितिः ॥ इति । अन्तर्भावप्रकारस्तल्लक्षणानि च विस्तरभयान्नोच्यन्ते तानि सौभाग्यरत्नाकरे त्रयोविंशे तरङ्गे द्रष्टव्यानि ॥ २७२ ॥ अथार्थप्रदावेव द्वौ प्रयोगावाह द्वाभ्याम्
यः पठेन्नामसाहस्रषण्मासं भक्तिसंयुतः।
लक्ष्मीश्चाञ्चल्यरहिता सदा तिष्ठति तद्गृहे ॥ २७३ ॥ यः पठेदिति । सकृदित्यनुवर्तते । षण्मासपर्यन्तं प्रत्यहं सकृद्यः पठेत्तद्गृहे सदा यावज्जीवं लक्ष्मीस्तिष्ठति । चाच्चल्यं हि लक्ष्म्याः स्वभावः । स्वभावो दुरतिक्रम इति हि प्रसिद्धिः । तादृशमपि दोषं परित्यज्येत्यर्थः ॥ २७३ ॥
मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः।
भारती तस्य जिह्वाग्रे रङ्गे नृत्यति नित्यशः ॥ २७४ ॥ मासमेकमिति षट्कापवादः । त्रिवारमिति तु सकृदित्यस्यापवाद: । एकदैव त्रि: पठेत्सन्ध्याभेदेन वेत्यविशेषः । भारती सरस्वती । अथवा भा प्रतिभा रतिरभिरुचिरास्था च । क्तिजन्तान्डीषि रतीति रूपम् । जिह्वाग्रमेव रङ्गं नृत्यभूमिरिति रूपकं नृत्यान्तरानुगुण्याय । घोषणगुणनिकापूर्वावलोकनपाठनादिकमनपेक्ष्यैव सर्वा अपि विद्या अविस्मृतास्तिष्ठन्ति । अध्ययनं त्वपेक्षितमेव । विद्याप्राप्तौ गुरोरेवासाधारणकारणत्वादिति भावः ॥ २७४ ॥ सिंहावलोकनन्यायेन पुनः कामप्रदं प्रयोगमाह
यस्त्वेकवारं पठति पक्षमेकमतन्द्रितः । मुह्यन्ति कामवशगा मृगाक्ष्यस्तस्य वीक्षणात् ॥ २७५ ॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392