SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 342 ललितासहस्रनामस्तोत्रम् यो राजा कुरुते वैरं नामसाहस्रजापिनः । चतुरङ्गबलं तस्य दण्डिनी संहरेत्स्वयम् ॥ २७२ ॥ चतुरङ्गबलं हस्त्यश्वरथपादातरूपं सैन्यम् । दण्डिनी दण्डनाथा या वाराही तन्त्रेषु प्रसिद्धा । संहरेत् सैनिकानां परस्परविद्वेषणेन कतिपयानामुच्चाटनेन नाशनेन च सम्भूयैककार्यकारित्वाभावो बलसंहारस्तं कुर्यात् । एवं षट्कर्माण्युक्तानि तानि च 'शान्तिर्वश्यं स्तम्भनं च विद्वेषोच्चाटमारणमिति शाबरचिन्तामणावुक्तानि । अत्रान्यान्येवोच्यन्ते परन्तु तेषां यथायथान्योऽन्यमन्तर्भावो द्रष्टव्यः । तदुक्तं तन्त्रराजे 'रक्षा शान्तिर्जपो लाभो निग्रहो निधनं तथा । षट्कर्माणि तदंशत्वादन्येषामपृथस्थितिः ॥ इति । अन्तर्भावप्रकारस्तल्लक्षणानि च विस्तरभयान्नोच्यन्ते तानि सौभाग्यरत्नाकरे त्रयोविंशे तरङ्गे द्रष्टव्यानि ॥ २७२ ॥ अथार्थप्रदावेव द्वौ प्रयोगावाह द्वाभ्याम् यः पठेन्नामसाहस्रषण्मासं भक्तिसंयुतः। लक्ष्मीश्चाञ्चल्यरहिता सदा तिष्ठति तद्गृहे ॥ २७३ ॥ यः पठेदिति । सकृदित्यनुवर्तते । षण्मासपर्यन्तं प्रत्यहं सकृद्यः पठेत्तद्गृहे सदा यावज्जीवं लक्ष्मीस्तिष्ठति । चाच्चल्यं हि लक्ष्म्याः स्वभावः । स्वभावो दुरतिक्रम इति हि प्रसिद्धिः । तादृशमपि दोषं परित्यज्येत्यर्थः ॥ २७३ ॥ मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः। भारती तस्य जिह्वाग्रे रङ्गे नृत्यति नित्यशः ॥ २७४ ॥ मासमेकमिति षट्कापवादः । त्रिवारमिति तु सकृदित्यस्यापवाद: । एकदैव त्रि: पठेत्सन्ध्याभेदेन वेत्यविशेषः । भारती सरस्वती । अथवा भा प्रतिभा रतिरभिरुचिरास्था च । क्तिजन्तान्डीषि रतीति रूपम् । जिह्वाग्रमेव रङ्गं नृत्यभूमिरिति रूपकं नृत्यान्तरानुगुण्याय । घोषणगुणनिकापूर्वावलोकनपाठनादिकमनपेक्ष्यैव सर्वा अपि विद्या अविस्मृतास्तिष्ठन्ति । अध्ययनं त्वपेक्षितमेव । विद्याप्राप्तौ गुरोरेवासाधारणकारणत्वादिति भावः ॥ २७४ ॥ सिंहावलोकनन्यायेन पुनः कामप्रदं प्रयोगमाह यस्त्वेकवारं पठति पक्षमेकमतन्द्रितः । मुह्यन्ति कामवशगा मृगाक्ष्यस्तस्य वीक्षणात् ॥ २७५ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy