SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर- बालातपासहितम् कालिकापुराणादौ च प्रसिद्धम् । नारसिंहप्रयोगपरावर्तनाय शरभसालुवाख्यमन्त्रप्रयोगास्तन्त्रेषु प्रसिद्धतराः । तेन विष्णोरपि मारक इति मारकेषूत्तमत्वादिह स एवास्मिन्कर्मणि गृहीतः । तेनेदं ध्वनितं भवति । ईदृशोऽपि बलवान्देवः प्रस्थानान्तरशीलोऽपि श्रीविद्योपास्केनैदंपर्येणानुपासितोऽप्यनेनाविदितोऽप्येतच्छत्रूपसंहाराय स्वयमेव यतते । तस्मात्तन्मात्रोपासकानपेक्ष्य ललितोपासकस्य निरवधिकं माहात्म्यमिति । अन्यथा 'तस्य ये शत्रवः सद्यो नश्यन्ति स्वत एव ते' इत्येव ब्रूयात् । एवमुत्तरत्रापि प्रत्यङ्गिरादिपञ्चकग्रहणे ध्वनिर्विज्ञेयः ॥ २६७ ॥ Acharya Shri Kailassagarsuri Gyanmandir यो वाभिचारं कुरुते नामसाहस्रपाठके । निवर्त्य तत्क्रियां हन्यात्तं वै प्रत्यङ्गिरा स्वयम् ॥ २६८ ॥ यो वेति । अभिचारम् अदृष्टद्वारकवैरिमरणसाधनक्रियां श्येनयागादिरूपां निवर्त्य परावर्त्य पराङ्मुखीकृत्येति यावत् । प्रत्यङ्गिरा अथर्वणभद्रकालीदेवता । अथर्वणवेदमन्त्रकाण्डे शौनकशाखायां द्वात्रिंशदृचः । पिप्पलादशाखायां त्वष्टाचत्वारिंशदृचस्तदीया आम्नायन्ते । तत्प्रयोगाश्च नारदतन्त्रे प्रसिद्धाः ॥ २६८ ॥ ये क्रूरदृष्ट्या वीक्ष्यन्ते नामसाहस्रपाठकम् । तानन्धानकुरुते क्षिप्रं स्वयं मार्ताण्डभैरवः ॥ २६९ ॥ क्रूरया क्रोधरक्तया दृष्ट्या । मार्ताण्डभैरवो नाम शिवस्यैवावतार: कर्णाटकदेशे प्रेमपुरे जातो महाराष्ट्रदेशेऽतीव विस्तृतो मैरालतन्त्रे ( रुद्रयामले ) यस्य मन्त्राः प्रयोगाश्व प्रसिद्धाः ॥ २६९ ॥ धनं यो हरते चोरैर्नामसाहस्रजापिनः । यत्र कुत्र स्थितं वापि क्षेत्रपालो निहन्ति तम् ॥ २७० ॥ 341 I यश्चोराणामधिपतिः । चोरैः करणकारकैः । क्षेत्रपालः दारुकासुरवधार्थं कालिकावतारोत्तरं तद्वधेऽपि तस्याः कोपशान्तिमजातामालोक्य शिव एव बालो भूत्वा तत्स्तनपानमिषेण क्रोधाग्निं पपौ । सोऽयं क्षेत्रपालावतारो लैङ्गै प्रसिद्धस्तन्मन्त्राश्च तन्त्रेषु धृताः । तं चोरराजं तन्नाशेन चोराणामुच्चाटनमर्थसिद्धमिति ॥ २७० ॥ विद्यासु कुरुते वादं यो विद्वान्नामजापिना । तस्य वाक्स्तम्भनं सद्यः करोति नकुलीश्वरी ॥ २७१ ॥ 1. नकुलीमन्त्रश्च - 'ओष्ठापिधाना नकुली दन्तैः परिवृत्ता पविः । सर्वस्यै वाच ईशाना चारुमामिह वादयेत् ॥' इति । विद्यासु चतुर्दशसु । वादपदं जल्पवितण्डयोरुपलक्षणम् । ऋग्वेदे आरण्यके नकुलीवागीश्वर्या' मन्त्रः समाम्नातः । भगवता परशुरामेणापि कल्पसूत्र उद्धृतः । प्रपञ्चसारादावेतस्य योगाः प्रसिद्धाः || २७१ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy