________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
343 पक्षमिति मासापवादः । एकवारमिति त्रिरावृत्तेः । अतन्द्रितो निद्राप्रमीलादिरहितः । इदञ्च च सर्वत्राप्यावश्यकमप्यस्मिन्प्रयोगेऽत्यावश्यकमिति द्योतनायोक्तम्, तेन च निशीथेऽयं प्रयोग इत्यपि सूचितम् । तस्य तत्कर्तृकात्तत्कर्मकाद्वा अत्र मात्रपदाभावेन संकल्पे स्त्रीणां वशीकरणार्थमित्युल्लेख: कार्य इति ध्वन्यते ॥ २७५ ॥
एवमर्थकामावुक्त्वा धर्मप्रदान्प्रयोगान्बहुभिः प्रकारैर्वक्तुमुपक्रममाणः प्रथमप्रयत्नसाध्यं धर्ममाह
यः पठेन्नामसाहनं जन्ममध्ये सकृन्नरः ।
तदृष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्बिषैः ॥ २७६ ॥ य इति । जन्ममध्य इत्यनेन यावज्जीवषण्मासैकमासैकपक्षाणां पक्षाणामपवादः । एकवारमित्यस्यैवानुवृत्त्या सिद्धावपि मण्डूकप्लुत्या त्रिवारपदानु- वृत्तिशङ्का मा प्रसाङ्क्षीदिति सकृदित्यनेन प्रतिप्रसवः । तदृष्टिगोचराः तत्कर्तृकचाक्षुषप्रत्यक्षविषयाः सर्वे प्रणिन इति शेषः || २७६ ॥ अथ दानक्रियासम्प्रदानकारकनिष्ठपात्रताशरीरघटकत्वेन धर्मप्रदत्वमाह चतुर्भि:
यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने ।
अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन ॥ २७७ ॥ य इति । देयमित्यत्र ललितोपासकेनेति शेषः । श्रीदेवीप्रीतिमिच्छतेत्युत्तरग्रन्थानुसारात् । तेनानुपासकेनान्येभ्योऽपि देयं सम्प्रदानत्वाविशेषादिति सिद्ध्यति । 'प्रवृत्ते शाम्भवीचक्रे सर्वे वर्णा द्विजातय' इति कुलार्णववचनेन ब्राह्मणधर्मातिदेशो न श्रुतिस्मृतिप्राप्तसम्प्रदानत्वविषयः, अपितु यागसमयेऽस्पृश्यतादिधर्ममात्रपर इत्याशयेनाह-द्विजन्मन इति । ब्राह्मणायेत्यर्थः । अन्नमित्यादिदेनमात्रोपलक्षणम् । अन्येभ्य: सहस्रनामस्वनादरशीलेभ्य उपासकाभासब्राह्मणेभ्यः कदाचन श्रुतिस्मृतिविहिताविज्यश्राद्धादिकालेऽपि न दद्यादित्यर्थः । तत्राप्युपास्तिपरा एवावश्यका इत्याशयः ॥ २७७ ॥
श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति ।
यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः ॥ २७८ ॥ मन्त्रराज श्रीविद्याम् । अत्र त्रयाणां समुच्चये सत्पात्रताम्, अन्यतमाभावे तारतम्यम्, त्रयाणामप्यभावे पात्रत्वाभावश्चेति न्यायत एव सिद्ध्यति ।।
तदयं निष्कर्ष:- सम्प्रदानतावच्छेदकानामेषां त्रयाणां विशेषणानां मध्ये एकैकविशेषणकास्त्रयो द्विद्विविशेषणका अपि त्रयस्त्रिविशेषणक एकस्त्रयाभाववानन्य इत्यष्टविधा ब्राह्मणाः प्रस्ताररीत्या भासन्ते यद्यपि तथापि चक्रराजार्चकत्वस्य
For Private and Personal Use Only