________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
344.
ललितासहस्रनामस्तोत्रम् मन्त्रराजवेत्तृत्वव्याप्यत्वेन तन्मन्त्रविशेषणको न सम्भाव्यते । अत एव च मन्त्रेतरविशेषणद्वयमात्रकोऽपि खपुष्पमेव । तेन षाविध्यमेव ब्राह्मणानाम् । तेषु त्रिगुणक उत्तमः, द्विगुणको मध्यमौ । तयोरपि मध्ये मन्त्रवेत्तृत्वचक्रार्चकत्वरूपगुणद्वयशालीनमपेक्ष्य मन्त्रवेत्तृत्व- नामकीर्तनरूपगुणद्वयशाली श्रेष्ठः, एकगुणको कनिष्ठौ । तयोरपि मध्ये मन्त्रवेदन- मात्रगुणको वरीयान् । नामकीर्तनमात्रगुणक: कनिष्ठतरः । मन्त्रराहित्ये नामकी- र्तनेऽधिकाराभावेनानधिकारिनिष्ठस्य गुणस्यापि शूद्राधीतवेदवाक्यन्यायेनाप्रयोजकत्वात् । अभावत्रयवांस्तु नैव पात्रमिति विवेकः ॥ २७८ ॥
तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता । यः कीर्तयति नामानि मन्त्रराजं न वेत्ति यः ॥ २७९ ॥
तस्मै सत्पात्राय प्रयत्नेनापि तस्मा एव देयम् । उत्तमालाभे मध्यमायापि देयमित्यादिरों न्यायलब्धोऽपि विधिरेव । तदुक्तं पुलस्त्यस्मृतौ
अदृष्टार्थो विधिः प्रोक्तो दृष्टार्थश्च द्वितीयकः ।
उभयार्थस्तृतीयस्तु न्यायमूलश्चतुर्थकः ॥ इति । इममेवार्थं वदन्नान्येभ्यस्तु कदाचनेत्यंशं विशदयति
'न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः।
पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम् ॥ अत्र च त्रिगुणत्रिगुणकातिरिक्तान्पञ्चापि य इत्यनेनोद्दिश्य पशुतुल्यत्वं विधित्सितं तेषां च त्रिगुणत्वावच्छिन्नप्रतियोगिताभाववत्त्वेनानुगमः । एकगुणकद्विगुणकेष्वपि व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकस्य तस्य सुलभत्वात् । स चाभाव उद्देश्यतावच्छेदकः पूर्वार्धेन निरूपितः । तत्र यद्यपि द्वयोरेव गुणयोरभाव उट्टङ्कितः प्रतीयते तथापि पात्रलक्षणे त्रयाणां विशेषणानामुपादानात्तदनुसारेण पशुलक्षणेऽपि त्रयाणामभाव एव विवक्षित: परन्तु व्यापकाभावेन व्याप्याभावोऽर्थायात इत्याशयेन चक्रराजं नार्चतीत्यंशः कण्ठरवेणोक्तः । मन्त्रवेदनस्य चक्रार्चकत्वव्यापकत्वात् ॥ २७९ ॥
पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम् ।
परीक्ष्य विद्याविदुषस्तेभ्यो दद्याद्विचक्षणः ॥ २८० ॥ पशुतुल्य इति पशुश्च पशुश्चेति विग्रहेणैकशेषे ताभ्यां तुल्य इति समासः । तत्रैक: पशुशब्दश्चतुष्पात्परः । अन्यश्च निरूढलक्षणया 'विद्याविहीनः पशु रिति प्रसिद्धपशुपरः । विद्या च श्रीविद्यैव । तदुक्तं ब्रह्माण्डपुराण एव
For Private and Personal Use Only