SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर - बालातपासहितम् 'न शल्पादिज्ञानयुक्ते विद्वच्छब्दः प्रयुज्यते । मोक्षैकहेतुविद्यावान्यः स विद्वानितीर्यते ॥ मोक्षैकहेतुविद्या च श्रीविद्यानात्र संशयः । इति । ततश्चोद्दिष्टानां पञ्चानां मध्ये त्रयाणां विद्यावत्त्वेऽपि चक्रार्चननामकीर्तनयोरधिकारसत्वेऽप्यकरणाद्विद्यमानाप्यविद्यमानप्रायैव विद्येति तेषां तादृशपशुतुल्यता । नाममात्रपाठिनो भावत्रयवतश्च चतुष्पात्पशुतुल्यतेति विवेकः । तस्मै दत्तं तत्सम्प्रदानकं दानम् । भावे क्तः । निरर्थकं अर्थरहितम् । अर्थशब्दस्तरतमभावापन्नः फलव्यक्तीराचष्टे । तेन विशिष्टफलाभावः फलसामान्याभावश्चेति पात्रतारतम्येनान्वयितव्यम् । एवमुक्तार्थवैपरीत्ये दण्डं निपात्योपक्रान्तं निगमयत्यर्धेन । तस्मादिति शेषः । विद्याविषये विद्वत्त्वं नाम याथातथ्येनोपास्तिशालित्वम् । तच्च ललिताचननामकीर्तनसाहित्ये सत्येव सम्पद्यत इति गुणत्रयशीलतां परीक्ष्य तेभ्यो दद्यादित्यर्थः । तेभ्य इति पञ्चमी वा । तेषामेव सत्पात्रत्वादन्येषां तदभावात्पात्र एवं दानविधा - नादन्यत्र तन्निषेधादिति हेतुभ्य इत्यर्थः । अस्मिन्पक्षे न शेषः पूरणीयः । विद्याविदामेव सम्प्रदानत्वमिति नियमस्तु परीक्षाया दृष्टार्थत्वबलादेव सेत्स्यति ॥ २८० ॥ श्रीमन्त्रराजसदृशो यथा मन्त्रो विद्यते । देवता ललितातुल्या यथा नास्ति घटोद्भव ॥ २८१ त्रयाणां च गुणानां परस्परमुपमानोपमेयभावेनोपमानान्तरविरहद्वारात्युत्तमत्वं ध्वनयंस्तेषां सत्पात्रतावच्छेदकतायां कथन्ताशङ्कामपाकरोति सार्धेन । अत्र यथातथे. त्यनयोर्वैपरीत्येनाप्यन्वयो द्रष्टव्यः ॥ २८१ ॥ रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः । लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम् ॥ २८२ ॥ 345 इदानीमनुपासकस्याप्येतत्स्तोत्रं धर्मप्रदमित्याह । यस्तु यः कश्चिदपि उपासकोऽनुपासको वेत्यर्थः । अनुपासकस्य नामकीर्तनेऽधिकाराभावेऽपि तत्पुस्तकार्चनेऽधिकारस्य निराबाधत्वात् ॥ २८२ ॥ समर्चयेत्सदा भक्त्या तस्य तुष्यति सुन्दरी । बहुनात्र किमुक्तेन शृणु त्वं कुम्भसम्भव ॥ २८३ ॥ नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु विद्यते । तस्मादुपासको नित्यं कीर्तयेदिदमादरात् ॥ २८४ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy