________________
Shri Mahavir Jain Aradhana Kendra
346
www.kobatirth.org
इति देवीपुराणे,
ललितासहस्रनामस्तोत्रम्
सदा यावज्जीवं तस्य अनुपासकस्यापि किमुतोपासकस्येति भावः । यद्यप्यनेनैव न्यायेन पुस्तकार्चनेनापि तुष्यति किमुत कीर्तनेनेति कैमुतिकन्यायेन कीर्तन एव तात्पर्यम् । तस्मात्कीर्तयेदित्युत्तरत्रोपसंहारो युज्यत इति सुवचम्, तथापि 'स्वाध्यायोşध्येतव्य' इति वचनेऽध्ययनपदस्य गुरुमुखोच्चारणानूच्चारणे शक्तत्वेऽपि तत्करणकार्थज्ञानभाव्यकभावनाविधानपरत्ववदिहापि नामानि कीर्तयेदिति विधेरप्यर्थज्ञानपर्यन्तता निर्विवादा । तेन
Acharya Shri Kailassagarsuri Gyanmandir
अप्येकं नाम यो वेत्ति धात्वर्थनिगमादिभिः । सोsपि श्रीललितालोके कल्पकोटीर्वसेन्नर: H
'अनधीतमविज्ञातं निगदेनैव पठ्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥'
इति स्मृत्यन्तरेषु च वचनान्यर्थज्ञानाज्ञानयोः प्रशंसानिन्दापराणि सङ्गच्छन्ते । अर्थज्ञानान्तसामर्थ्याभावे तु निगदमात्रपरापि सा भावना भवितुमर्हति । 'आख्यातानामर्थं ब्रुवतां शक्ति: सहकारिणीति न्यायात् । अत एव 'योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मेति श्रुतावर्थज्ञानप्राप्यफले सकलत्वविशेषणेन शब्दज्ञानमात्रेण किञ्चिद्विकलं फलमस्तीति ज्ञापितम् । ततश्च तुल्यन्यायेण शब्दपाठेऽप्यसमर्थस्य पुस्तकसंग्रहमात्रमपि न्यायलभ्यम् । उच्चारणस्य जन्मान्तरे अर्थज्ञानप्रदत्ववत्पुस्तकसंग्रहस्याप्युच्चारणप्रदत्वं जन्मान्तरे सम्भवतीति सुवचम् । अत एव तन्त्रराजादिष्वसम्प्रदायेनाङ्गहीनापि कृतोपासना जन्मान्तरे साङ्गसम्प्रदायशुद्धयै कल्पत इत्युक्तम् । तेन पुस्तकार्चनमात्रमपि धर्म एव । स चानुपासकस्याप्यनिषिद्वत्वाज्जन्मान्तरे उपासनाप्राप्त्यर्थं कर्तव्य एव । उपासकस्य तु नामपाठेऽप्यसमर्थस्य नाम पठेदिति विधेर्यावच्छक्तिपरिपालनायावश्यकतम एव । न च 'कुलपुस्तकानि गोपये' दिति कल्पसूत्रोक्तविधिविरोधादनुपासकस्य कथं पुस्तकार्चनेऽधिकार इति वाच्यम् । तस्यार्थज्ञानविदूषकदुर्जनपरत्वेन भाविकोपासनेच्छुसज्जनपरत्वाभावात् । तथासत्यदृष्टार्थतापत्तेरित्यन्यदेतत् । उपासकानां तु नामपाठशक्तानां पुस्तकार्चनमात्रं वावश्यकमिति तु निराबाधमेव । अयं च न्याय एतदर्थज्ञानोपायभूतभाष्याध्ययनेऽपि तुल्य इत्याशयेन ग्रन्थान्तेऽस्माभिर्वक्ष्यते ।
'अम्ब त्वत्पदयोः समर्पितमिदं भाष्यं त्वया कारितं त्वन्नामार्थविकासकंतब मुदे भूयादथ त्वां भजन् । यो नैनत्परिशीलयेन्न च पठेद्यः पुस्तकस्यापि वा संग्राहं न करोति तस्य ललितोपास्तिर्वृथा जायताम् ॥'
For Private and Personal Use Only