Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
336
www.kobatirth.org
ललितासहस्रनामस्तोत्रम्
Acharya Shri Kailassagarsuri Gyanmandir
रोगसामान्याभावविशिष्टसम्पन्नचिरतरजीवित्वं भाव्यं सिद्ध्यति । तेन रोगिण इव नीरोगस्यापि रोगप्रागभावपरिपालनोद्देशेनास्मिन्प्रयोगेऽधिकारः सिद्धः । संकल्पव्यवहारादावुपयोगित्वेन नामधेयं प्रदर्शयति-अयमायुष्कर इति । करोतीति करः पचाद्यच् | आयुषः कर आयुष्करः । कस्कादेराकृतिगणत्वाद्विसर्गस्य षत्वम् । नामेत्यव्ययं संज्ञाकृतप्रसिद्ध्यर्थकम् । कल्पनोदितः कल्पे कल्पसूत्रे परशुरामकृते नोदितः सूचितः । कल्पसूत्राणां सर्वेषामितस्ततो विप्रकीर्णपरशाखापठिताङ्गजातोपसंहारेण प्रयोगविधिकल्पनार्थत्वात्तत्र नित्यार्चादिकतिपयप्रयोगकथनेनेतरे प्रयोगास्तत्रानुक्ता अपि सूचिता एवेत्यर्थः । यद्वा कल्पसूत्रतुल्येषु तन्त्रेषु नोदितः कण्ठरवेणोक्तः । अथवा कल्पनेन भाव्यकरणयोः कार्यकारणभावकल्पनेन उदितः समर्थितः । यद्वा कल्पेऽपि प्रलंयकालेऽपि नोदितो विहितः । प्रलयाव्यवहितपूर्वकालीनैः साधकैरुत्तरत्र संघातमरणनिश्चयेऽपि दीर्घायुः कामनया कृतोऽयं प्रयोगः प्रलयकालेऽपि तान् रक्षतीत्यर्थः । अथवा अयमायुष्कर इत्याकारको नाम्नां प्रयोगः प्रयुज्यमानता । व्यवहार इति यावत् । कल्पनयावयवशक्तिकल्पनया योगरूढिकल्पनया वोदित उक्तः । तेन न्यायतौल्यादुत्तरेऽपि प्रयोगा ज्वरहरादिनामका ऊह्याः । तत्फलं तु संकल्पादावुपयोग इति सिद्ध्यति ।
अथास्य स्पष्टतरः प्रयोगविधिरुच्यते - चन्द्रतारादिबलविशिष्टे उदयव्यापिपौर्णमासीतिथावहन्येव यथाधिकारं वैदिकं तान्त्रिकञ्च नैत्यकं कर्म समाप्योपोषितः सायाह्ने पुनः स्नात्वा सायंसध्यां वैदिकीं तान्त्रिकीं च नित्यपारायणान्तां निर्वर्त्य सम्यगुदिते पूर्णचन्द्रे शुचौ देशे समन्त्रकमासनं प्रसार्य पूर्वाभिमुखस्तस्मिन्नुपविश्याचम्य मूलेन प्राणानायम्य देशकालौ संकीर्त्य ममान्यस्य वामुकशर्मणोऽमुकगोत्रस्य नीरोगत्वसम्पत्तिदीर्घायुःसिद्ध्यर्थं श्रीललितासहस्रनामस्तोत्ररूपमालामन्त्रस्य सकृत्पठनेनायुष्करं प्रयोगमहं करिष्य इति संकल्प्य चन्द्रमण्डलं पश्यन्नुन्मीलितलोचन एव तन्मध्ये साङ्गां सावरणां सतिथिनित्यां सगुरुपङ्क्ति त्रिपुरसुन्दरीमवयवशो ध्वात्वा स्वाभिन्नां विभाव्य सः 'श्रीललिताम्बिकायै नमः गन्धान्समर्पयामीत्येवंरूपैर्मन्त्रैः प्रत्यक्षान्गन्धपुष्पधूपदीपनैवेद्योपचारान्प्रकृतिवत्सलक्षणान्निवेद्यानुक्तमपि ताम्बूलं सम्प्रदायवशान्निवेद्य चन्द्रमण्डले देवीं पश्यन्नेव प्राथमिकान्पञ्चाशच्छ्लोकान्पठित्वा ऋष्यादिन्यासत्रयं विधाय ध्यानश्लोकं पठित्वा यथाधिकारं प्रणवमुच्चार्य सुव्यक्ताक्षरमर्थानुसन्धानपुरःसरमत्वरन्सहस्रनाममन्त्रं 'श्रीमाते'त्यादि 'ललिताम्बिके' त्यन्तं पठित्वान्ते पुनः प्रणवमुच्चार्यर्ष्यादिन्यासत्रयं कृत्वोत्तरभागं तथैव पठित्वा जपं देवीवामहस्ते जलक्षेपपुरःसरं गुह्येति यथालिङ्गं समर्प्य देवीं स्वात्मत्वेन परिणमय्य चन्द्रबिम्बाद् दृष्टिमवतार्याचम्योत्थाय सामायिकान्सन्तर्प्ययमायुष्करः प्रयोगः साङ्गो भवतु तेन च त्रिपुरसुन्दरी प्रीयतामिति तदाशिषो गृहीत्वा स्वयमपि भुञ्जीतेति । नित्यकर्माणि कुर्वतामेव नैमित्तिकेष्वधिकारः ।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392