Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 338
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 324 ललितासहस्रनामस्तोत्रम् स्कान्दादावुपलभ्यन्त एवेत्यत आह--ललितेति । तेषां ललितातोऽपकृष्टदेवताप्रीतिकरत्वेन सर्वोत्कृष्टदेवताप्रीतिकरमिदमेवेत्यर्थः । नन्वीदृशमपि किञ्चित्सम्भाव्येतेत्यत आह–अनेनेति । सदृशं रहस्यतमत्वे सति ललिताप्रीतिकरत्वरूपसाधारणधर्मवत्त्वरूपसादृश्यवत् । स्तोत्र स्तोत्रान्तरम् । एकस्मिन्नुपमानोपमेयभावाभावात् । न भूतं इतःक्षणात्पूर्वकाले । न भविष्यति इत उत्तरकाले । भविष्यतीति शत्रन्तस्य सप्तमी वा । वर्तमानक्षणस्य तादृशस्तोत्रोत्पत्त्ययोग्यत्वात्कालत्रयासम्बन्धात्तादृशमसदेवेति भावः । अस्य विशेषणद्वयस्यान्यत्रासत्त्वप्रतिपादनाय विशेषणविवरणपर उत्तर: सर्वोऽपि ग्रन्थसन्दर्भः ॥ २३५ ॥ ___ तत्र रहस्यतमत्वं विवेचयति द्वाभ्याम् । 'प्रयासतारतम्यात्फलतारतम्य मिति न्यायेन फलभूमसाधने कष्टसाध्यत्वस्य प्रसिद्धतमत्वाद्बहुफलसाधनमप्यल्पायाससाध्य कर्म रहस्यतमम् । तत्र नामकीर्तने प्रयासेयत्तायाः स्पष्टत्वात्फलभूमानमेव विवृणोति । सर्वे रोगाः असाध्ययाप्यादिभेदभिन्नाः । दारिद्र्यस्यापि रोगतुल्यत्वेनोपस्थितत्वात्तदभावनियतसम्पवृद्धेरपि फलत्वमाह सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम् । सर्वापमृत्युशमनं कालमृत्युनिवारणम् ॥ २३६ ॥ सर्वसम्पदिति । अथवा सम्पदारोग्ययोः परस्पराभावव्याप्यत्वादारोग्ये सति दारिद्रयं स्यादेवेति शङ्कामपाकुर्वन्नारोग्यं सम्पत्त्या समुच्चिनोति-सर्वसम्पदिति । गजतुरगसमृद्ध्यादिभेदभिन्नानां सम्पदामित्यर्थः । सर्वे अपमृत्यवः सर्पव्याघादिनिमित्तकाः । अत्यल्पमिदमुच्यत इत्याह-कालेति । काले आयुः परिमाण: परिसमाप्तौ । तेनापमृत्यूनामायुर्मध्य एव प्रसक्तिः । वर्तितैलादिसाचिव्येऽपि चण्डवातादिकृतदीपनाशवदिति सूचितम् ॥ २३६ ॥ सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् । सर्वे ज्वरा ऐकाहिकादिसान्निपातिकान्ताः । आर्तिस्तत्प्रयुक्ता शिरस्तोदादिरूपा पीडा तेषां शमनं नाशकम् । अथवा सर्वेषां ये रोगा इत्यादिरीत्या पदचतुष्टयं व्याख्येयम् । तेन जातेष्ट्यादिवत्फलसाधनयोर्वैयधिकरण्यमपि सिद्ध्यति । ततश्चान्यनिष्ठफलोद्देशेनान्यस्यापि साधने प्रवृत्तिरिह युक्तेति मन्तव्यम् । रोगैरेव सिद्धे ज्वरायो: पार्थक्येन ग्रहणं गोबलीवर्दन्यायेन । यदा वक्ष्यमाणकाम्यप्रयोगानुसारेण पार्थक्यम् । तत्र रोगशान्त्यादिचतुरवयवैकफलकप्रयोगकथनोत्तरं तत्तदवयवमात्रफलकानां प्रयोगाणां वक्ष्यमाणत्वात् । अत एव दीर्घायुष्यपदस्याप्ययमर्थः सिद्ध्यति । दीर्घ पूर्णं यत् आयुषो भाव आयुष्यं दीर्घायुष्ट्वं शतमानत्वं तस्य प्रदायकं तद्विघातकग्रहविषादिबाधानिरासकमिति । यद्वा आयुरेवायुष्यं दीर्घशतमाना For Private and Personal Use Only

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392