Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 342
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 328 ललितासहस्रनामस्तोत्रम् पूर्वस्योत्तरोत्तरं व्याप्य प्रञ्चक्रोशवत् उत्तरोत्तरं पुण्यवच्च । तेष्वन्तर्गृहमतीवोत्तमम् । तद्धि परमशिवस्य शरीरमेव । शरीरशरीरिणोश्चाभेदान्नित्यत्वाच्च 'अविशब्देन पापानि कथ्यन्ते द्विजसत्तम । तैर्मुक्तं न मया व्यक्तमविमुक्तमतः स्मृतम् ॥ इति लिङ्गपुराणोक्तस्य द्विविधस्यापि निर्वचनस्यान्तर्गृह एव मुख्यतयोपपत्तावपि तद्व्यापकस्थानविशेषनिरूढलक्षणया प्रयोगबाहुल्यात्पण्डितपामरसाधारण्येनान्तर्गृहस्य मुख्यमविमुक्तत्वमिति ज्ञानाभावादज्ञातं सदविमुक्तमन्तर्गृहमेवेति ज्ञापयन्नाहअविमुक्तके इति । अज्ञातार्थे कप्रत्ययः । अन्तर्गृह इत्यर्थः । अन्तर्गृह इत्यनुक्तिरुक्तनिर्वचनस्मारणेन पुण्यातिशयवत्त्वद्योतनाय । ततश्चान्तगृहे सहस्रपरिवत्सरपर्यन्तं प्रतिदिनं परया श्रद्धया कोटिलिङ्गानि यः प्रतिष्ठापयति तदेकजन्मजनितं पुण्यं तस्य कोटिसंख्यागुणनेन जातो राशिर्द्वितीयः ॥ १४२ ॥ कुरुक्षेत्रे तु यो दद्यात्कोटिवारं रविग्रहे । कोटिं सौवर्णभाराणां श्रोत्रियेषु द्विजन्मसु ॥ २४३ ॥ करुणाकृष्टो देशस्तरन्तुकारन्तुकयोर्मध्यवर्ती कुरुक्षेत्रमित्युच्यते । रविग्रहे सूर्योपरागे। 'सर्वत्र सर्वदा सर्वं गृह्णन्मुच्येत कर्हिचित् । उपरागे कुरुक्षेत्रे गृह्णन्विप्रो न मुच्यते ॥ । इत्यादिना महाभारतादौ तत्र प्रतिग्रहीतुः प्रायश्चित्ताभावोक्त्या फलानन्त्यं दाने । यद्यपि बृहस्पतिस्मृतौ- 'त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती'त्युक्तं तथापि तेष्वपि सुवर्णसाध्यत्वात्तदानस्यैवाधिक्यमभिप्रेत्याह-सौवर्णेति । भारो नाम विंशतिस्तुलाः । तुला नाम पलशतम् । 'तुला स्त्रियां पलशतं भारः स्याविंशतिस्तुला इति कोशात् । श्रोत्रियेषु जन्मसंस्कारविद्याभि: संस्कृतेषु 'त्रिभिः श्रोत्रिय उच्यत' इति ब्रह्मवैवर्तात् । देशकालपात्रदेयश्रद्धाज्ञानगोपनानां क्रियास्वतिशयाधायकत्वात्प्रतिधर्मं कानिचिदनुक्तान्यपि योजनीयानि । ततश्च कुरुक्षेत्रे रविग्रहणे सत्पात्राय श्रद्धादिभि: सौवर्णभारकोटिदानं कोटिगुणितं चेदेकं पुण्यम् । अस्य सहस्रपरिवत्सरसम्ब- न्धिदिनसंख्यया गुणने तस्य पुनर्जन्मकोटिभिर्गुणनेन जातः पुण्यराशिस्तृतीयः ॥ २४३ ॥ यः कोटिं हयमेधानामाहरेद्गाङ्गरोधसि । आचरेत्कूपकोटीर्यो निर्जले मरुभूतले ॥ २४४ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392