Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
326
ललितासहस्रनामस्तोत्रम् ___इदमिति । इतरस्तोत्रपठनजन्यप्रीतिमपेक्ष्यतज्जन्याः प्रीतिर्विशिष्टेत्यर्थः । तेन प्रीतिविशेषजनकत्वे सति रहस्यतमत्वमिहैवेति भावः । एतेनाग्निहोत्रदर्शपूर्णमासज्योतिष्टोमविश्वजिदादिकर्मणामायासतारतम्यसाध्यानामेकजातीयस्वर्गफलकत्वायोगे न स्वर्गेषु तरतमभावकल्पनेति पूर्वतन्त्रसिद्धन्यायादेव देवताप्रीतावपि बहुभिः स्तोत्रैः प्रातिस्विकजनितायां तारतम्यसिद्धेर्विशेषादित्युक्तौ को विशेष इति परास्तम् । इतोऽप्यधिकायाससाध्यकर्मान्तरजनितायां देवताप्रीतावपि तेन न्यायेनेतोऽपि प्रीत्याधिक्यप्राप्तौ तन्माप्रसाङ्क्षीदित्याशयेन विशेषपदोपादानस्य सार्थक्यात् । अत एव च रहस्यतमत्वमप्युपपद्यते । तस्मात्प्रकृष्टेनापि यज्ञेन ललितोपासको यावज्जीवमिदं जपेदित्यर्थः ॥ २३८ ॥ जपकाले विधिमाह द्वाभ्याम्
प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च ।
पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् ॥ २३९ ॥ प्रातरित्यादिभ्याम् । विधानेन वैदिकतान्त्रिकोभयप्रकारेण । काकक्षिन्यायेनास्य स्नानसन्ध्ययोरन्वयः । पूजागृहगमनं द्वारपूजाद्युपलक्षणम् । चक्रराजं श्रीचक्रम् । समर्चयेदिति स्वार्थे णिच् । अशक्तौ प्रयोजककर्तृपरो वा ॥ २३९ ॥
विद्यां जपेत्सहस्रं वा त्रिशतं शतमेव वा । रहस्यनामसाहस्रमिदं पश्चात्पठेन्नरः॥ २४० ॥
विद्यां पञ्चदशी षोडशी वा । न तु स्त्रीदेवत्यमन्त्रसामान्यम् । सहस्रं वेत्यादिष्वष्टोत्तरशतमिति शेषः । त्रिशतं शतत्रयं न तु व्युत्तरशतम् । नायं तुल्यबलो विकल्पः किन्तु पूर्वासम्भवे परोऽनुकल्प इति द्योतयितुमेवकारः । पश्चात् विद्याजपपुष्पाञ्जलिदानयोर्मध्ये | अत एव जप्त्वा पुष्पाञ्जलिं दद्यादिति कथितं तयोः पौर्वापर्यं नाव्यवहितम्, किन्तु सहस्रनामपाठेन व्यवहितमेव । वेदवेदिकरणयोरिव क्षुताचमनेन वेदाध्ययनस्नानयोरिव च मीमांसाध्ययनेनेति भावः । अत्र प्रातः स्नात्वेत्यादिः सर्वोऽपि विध्यन्तरप्राप्तानुवादः । सहस्रनामपाठे कालमात्रं तु विधेयम् । अत एव जपपाठयोर्न परस्परमङ्गाङ्गिभावोऽपि । द्वयोरपि प्रातिस्विकविधिभ्यां फलवत्तया सहस्रनामकीर्तनस्यापि विध्यन्तरेणैव फलार्थतयाऽवगतत्वेन 'दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेते त्यादाविव कालार्थस्यैव संयोगस्य निर्णयात् । स्नानादिप्रधानपञ्चकस्य क्रम एव वा विततिरूपो विधेयः । तेनान्यतमप्रधानाकरणेऽपि'अनपायो हि कालेस्येति न्यायेनावैगुण्यात्फलानुत्पत्तिरपास्ता ॥ २४० ॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392