Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
330
ललितासहस्रनामस्तोत्रम् ___ इति । इदञ्च पुण्यपदस्य गुणकस्थाने गुण्यस्थाने चेति द्विःप्रयोगाल्लभ्यते । पुण्यकोट्येति व्यत्यस्तानुक्तिबलात्कोटिभिर्गुणितमिति बहुवचनान्तेन विग्रह इति च लभ्यते । सर्वमिदं फलमुपक्रमानुसारात्स्तोत्रपाठस्यैवेति भ्रमो माप्रसञ्जीत्यत आहनाम्नोऽप्येकस्येति ॥ २४६ ॥ ।
रहस्यनामसाहले नामैकमपि यः पठेत् ।
तस्य पापानि नश्यन्ति महान्त्यपि न संशयः ॥ २४७ ॥ इदानीं पुण्यराशिजनकत्ववत्पापराशिनाशकत्वमप्येकैकस्य नाम्नः फलमित्याह । अपिशब्द उपपातकादेः कैमुतिकन्यायेन वाचकतया वाच्यतया वा समुच्चायकः ॥ २४७ ॥
नित्यकर्माननुष्ठानानिषिद्धकरणादपि ।
यत्पापं जायते पुंसां तत्सर्वं नश्यति द्रुतम् ॥ २४८ ॥ तानि च पापानि यद्यपि
'विहितस्याननुष्ठानानिन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥ इति स्मृतौ निमित्तत्रैविध्यात्रिविधानि प्रतिपाद्यन्ते, तथापीन्द्रियनिग्रहतदभावयोर्विहितप्रतिषिद्धत्वाभ्यां तज्जन्यपापानामुक्तविधयोरेवान्तर्भाव इत्यभिप्रेत्य द्वैविध्येनैव गणयति । तत्तद्वर्णाश्रमभेदेन श्रुतिस्मृतितन्त्रेषु विहितान्यकरणे प्रत्यवायफलकानि सन्ध्यावन्दनोपरागस्नानादीनि नित्यकर्माणि । तेनैव नैमित्तिकानामपि संग्रहात् । कलञ्जभक्षणादीनि निषिद्धानि । द्रुतं प्रायश्चित्तान्तरानपेक्षम् || २४८ ॥
एतज्जन्यपुण्यराशेरिवैतन्नाश्यपापराशेरपीयत्ता बुद्धिमद्भिरेवोह्येत्याशयेन शिष्यं पुनरपि सावधानीकुर्वन्नाह सार्धेन
बहुनात्र किमुक्तेन शृणु त्वं कलशीसुत । अत्रैकनाम्नो या शक्तिः पातकानां निवर्तने ॥ २४९ ॥
तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश । कलशीति | जातिलक्षणो ङीष् । तन्निवर्यं तया शक्त्या नाश्यं अघं पापं नालं न समर्थाः लोकाः जनाः चतुर्दश चतुर्दशभुवनगताः समस्तभुवनगताः । समस्ताः प्राणिनः प्रतिक्षणमासुप्तेरामृतेश्च कोटिकोटिजन्मभिरुच्चावचानि पापानि कुर्वन्ति चेद्यावान्पापराशिः स्यात्ततोऽप्यनवधिकोऽधिक एकैकनाम्नो निवर्त्यस्तस्य सहस्र गुणनेन सम्पूर्णस्तोत्रपाठफलत्वमित्यूह्यमिति भावः ॥ २४९-४९।।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392