Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 346
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 332 ललितासहस्रनामस्तोत्रम् मध्यपठिताष्टाकपालादिवाक्यन्यायेन सिद्धेः । यत्रैकस्यापि नाम्न एतावत्फलम्, किमु वक्तव्यं तत्र सम्पूर्णस्तोत्रस्य तावत्फलं भवतीति कैमुतिकन्यायेन स्तोत्रप्रशंसोपपत्तेः, अपिशब्दस्वारस्येन तथा प्रतीतेश्च । यद्वा एकस्य नाम्न एतावत्फलमित्युक्तिरेतत्सहस्रगुणितस्य स्तोत्रफलत्वसिद्ध्यर्था न तु पार्थक्येन फलवत्त्वसिद्ध्यर्थापि । उभयत्र तात्पर्ये वाक्यभेदप्रसङ्गात् । अत एव 'एकं वृणीत' इत्यादेः 'त्रीन्वृणीत' इत्येतदुपपादनार्थतायाः स्वीकारात् । एकाक्षरादिषोडशाक्षरान्तनाम्नां तुल्यफलकत्वायोगाच्च । तथात्वे इतरवैयर्थ्यादिदोषाणां स्पष्टत्वात् । तृतीयेन तु विशेषणेनानियमेन कतिपयदिवसपर्यन्तपाठादेव तादृशफललिप्सा निरस्ता । 'जन्ममध्ये सकृच्चापि य एवं पठते सुधी रिति वचनस्याप्येकवाक्यमध्यपठितत्वेनापिशब्दस्वारस्याच्चोक्तरीत्या द्वयी गतिरूह्या । चतुर्थेन विशेषणेनाग्नेयादीनां षण्णां परस्परसाहित्याभावे फलानुत्पत्तिवदिहापि तथेति सूचितम् । ___ इयांस्तु विशेष:- आग्नेयादीनां दर्शपूर्णमासवाक्येन सहितानामेकफलसाधनत्वावगमादन्यतमाभावेऽपि फलोत्पत्तिरेव न भवति । इह तु सहस्रनामपाठाभावेऽप्यन्येभ्यः प्रधानेभ्यस्तत्तत्फलान्युत्पत्तुमर्हन्त्येव । न च प्रधानान्तरसाहित्याभावमात्रेण सहस्रनामपाठस्य नैष्फल्यं कथं सुवचमिति वाच्यम् । ईदृशप्रयोगजन्यफलविशेषस्य प्रमाणाभावादनुत्पत्तावपि नामस्मरणजन्यफलान्तराणां वचनान्तरादधिगतानां सम्भवेंन नैष्फल्यायोगादिति दिक् । इदानीमुपास्तिशरीरघटकत्वादप्येतदावश्यकमित्याहार्धेन अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ॥ २५२ ॥ अकीर्तयन्निति । उपासकानामुपास्यदेवताप्रीतिजननमपेक्ष्य पुरुषार्थान्तराभावा२. ज्जनककर्मण्यनादरे कथं भक्तता | अपितु न कथञ्चिदपीत्यर्थः । अयं भाव: 'चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्को जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ।' इति स्मृत्युक्तानां चतुर्विधानां भक्तानां मध्ये आर्तानां पापनिवृत्त्यर्थम्, जिज्ञासुभक्तानां निष्कामानामपि चित्तशुद्ध्यर्थम्, अर्थार्थिभक्तानामर्थसिद्ध्यर्थम्, ज्ञानिभक्तानां लोकसंग्रहार्थम्, कीर्तनस्यावश्यकत्वाद्भजकतावच्छेदकशरीरघटकं नामकीर्तनम् । तदिदं 'महापातकिनां त्वार्ता वित्याद्यधिकरणेषु भक्तिमीमांसाभाष्ये स्पष्टमिति ॥ २५२ ॥ इदानीमुक्तविशेषणचतुष्टये तृतीयविशेषणाशक्तान्प्रति पक्षान्तरमनुकल्प्यमाह द्वाभ्याम् नित्यं संकीर्तनाशक्तः कीर्तयेत्पुण्यवासरे। संक्रान्तौ विषुवे चैव स्वजन्मत्रितयेऽयने ॥ २५३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392