________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
328
ललितासहस्रनामस्तोत्रम् पूर्वस्योत्तरोत्तरं व्याप्य प्रञ्चक्रोशवत् उत्तरोत्तरं पुण्यवच्च । तेष्वन्तर्गृहमतीवोत्तमम् । तद्धि परमशिवस्य शरीरमेव । शरीरशरीरिणोश्चाभेदान्नित्यत्वाच्च
'अविशब्देन पापानि कथ्यन्ते द्विजसत्तम ।
तैर्मुक्तं न मया व्यक्तमविमुक्तमतः स्मृतम् ॥ इति लिङ्गपुराणोक्तस्य द्विविधस्यापि निर्वचनस्यान्तर्गृह एव मुख्यतयोपपत्तावपि तद्व्यापकस्थानविशेषनिरूढलक्षणया प्रयोगबाहुल्यात्पण्डितपामरसाधारण्येनान्तर्गृहस्य मुख्यमविमुक्तत्वमिति ज्ञानाभावादज्ञातं सदविमुक्तमन्तर्गृहमेवेति ज्ञापयन्नाहअविमुक्तके इति । अज्ञातार्थे कप्रत्ययः । अन्तर्गृह इत्यर्थः । अन्तर्गृह इत्यनुक्तिरुक्तनिर्वचनस्मारणेन पुण्यातिशयवत्त्वद्योतनाय । ततश्चान्तगृहे सहस्रपरिवत्सरपर्यन्तं प्रतिदिनं परया श्रद्धया कोटिलिङ्गानि यः प्रतिष्ठापयति तदेकजन्मजनितं पुण्यं तस्य कोटिसंख्यागुणनेन जातो राशिर्द्वितीयः ॥ १४२ ॥
कुरुक्षेत्रे तु यो दद्यात्कोटिवारं रविग्रहे ।
कोटिं सौवर्णभाराणां श्रोत्रियेषु द्विजन्मसु ॥ २४३ ॥ करुणाकृष्टो देशस्तरन्तुकारन्तुकयोर्मध्यवर्ती कुरुक्षेत्रमित्युच्यते । रविग्रहे सूर्योपरागे।
'सर्वत्र सर्वदा सर्वं गृह्णन्मुच्येत कर्हिचित् ।
उपरागे कुरुक्षेत्रे गृह्णन्विप्रो न मुच्यते ॥ । इत्यादिना महाभारतादौ तत्र प्रतिग्रहीतुः प्रायश्चित्ताभावोक्त्या फलानन्त्यं दाने । यद्यपि बृहस्पतिस्मृतौ- 'त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती'त्युक्तं तथापि तेष्वपि सुवर्णसाध्यत्वात्तदानस्यैवाधिक्यमभिप्रेत्याह-सौवर्णेति । भारो नाम विंशतिस्तुलाः । तुला नाम पलशतम् । 'तुला स्त्रियां पलशतं भारः स्याविंशतिस्तुला इति कोशात् । श्रोत्रियेषु जन्मसंस्कारविद्याभि: संस्कृतेषु 'त्रिभिः श्रोत्रिय उच्यत' इति ब्रह्मवैवर्तात् । देशकालपात्रदेयश्रद्धाज्ञानगोपनानां क्रियास्वतिशयाधायकत्वात्प्रतिधर्मं कानिचिदनुक्तान्यपि योजनीयानि । ततश्च कुरुक्षेत्रे रविग्रहणे सत्पात्राय श्रद्धादिभि: सौवर्णभारकोटिदानं कोटिगुणितं चेदेकं पुण्यम् । अस्य सहस्रपरिवत्सरसम्ब- न्धिदिनसंख्यया गुणने तस्य पुनर्जन्मकोटिभिर्गुणनेन जातः पुण्यराशिस्तृतीयः ॥ २४३ ॥
यः कोटिं हयमेधानामाहरेद्गाङ्गरोधसि । आचरेत्कूपकोटीर्यो निर्जले मरुभूतले ॥ २४४ ॥
For Private and Personal Use Only