________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सौभाग्यभास्कर - बालातपासहितम्
329
अथेष्टापूर्ते आह-तरति ब्रह्महत्यां तरति पाप्मानं योऽश्वमेधेन यजते इति विहितः क्रतुविशेषो हयमेधः । गाङ्गरोधसि गङ्गासम्बन्धिनि तीरे । ततश्च गङ्गातीरे श्रोत्रियैर्ऋत्विग्भिः सह साङ्गकोट्यश्वमेधयज्ञजनितपुण्यस्य पूर्ववद्दिनसंख्यया पुनः कोटिसंख्यया च गुणनाज्जातो राशि चतुर्थः । कूपेति वापीतडागादेरुपलक्षणम् । मरुरिति देशविशेषस्य संज्ञा । तेन न निर्जलपदानर्थक्यम् । तादृशदेशे कूपादिकोटिखननजनितपुण्यस्य पूर्ववद्दिनसंख्यया जन्मकोटिसंख्यया च गुणने जातो राशिः
पञ्चमः ॥ २४४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
दुर्भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् । श्रद्धया परया कुर्यात्सहस्रपरिवत्सरान् ॥ २४५ ॥
दुर्लभा भिक्षा यस्मिन्स सकलो देशोऽपि दुर्भिक्षः । तत्र कोटिसंख्यानामुत्तमब्राह्मणानामुत्तमषड्रसोपेतभोजनदानेन जातस्य पुण्यस्य दिनसंख्यया पुनः कोटिसंख्यया च गुणनाज्जातो राशिः षष्ठः परिवत्सरानित्यत्यन्तसंयोगे द्वितीया । द्वादशसहस्रवर्षेष्वनवरतमित्यर्थः । संवत्सरपरिवत्सरेदावत्सरेद्वत्सरानुवत्सरशब्दानां प्रभवप्रमाथिखरशोभनराक्षसादिद्वादशद्वादशवर्षविशेषवाचित्वेऽपि प्रकृते सामान्यमात्रोपलक्षकत्वात् ॥ २४५ ॥
तत्पुण्यं कोटिगुणितं लभेत्पुण्यमनुत्तमम् । रहस्यनामसाहसे नाम्नोऽप्येकस्य कीर्तनात् ॥ २४६ ॥
1
तेषां तीर्थस्नानशिवप्रतिष्ठास्वर्णदानेष्टापूर्तब्रह्मभोजनोत्थानां षण्णां पुण्यराशीनां याः कोटयस्ताभिर्गुणितं पुण्यमुपस्थितत्वात्तमेव पुण्यषट्कमहाराशिं लभेतेत्यर्थः । अयं भावः-षण्णामपि पुण्यराशीनामेकं महाराशिं विभाव्य तं द्विरावृतं कृत्वा स्थलद्वये निक्षिप्य तयोर्मध्ये एकं राशिं कोटिसंख्यया गुणयित्वा तज्जन्यया संख्यया परं राशि गुणयेत् । तत्र गुण्यस्य राशेरेकसंख्यावच्छिन्नत्वे तस्य गुणनं व्यर्थम् । अतः संख्यान्तरवच्छिन्नत्वस्यावश्यकत्वे सत्युपस्थितत्वात्कोटिरूपैव संख्या गुण्या वाच्या | ततश्च द्वावपि महाराशी प्रातिस्विकं कोटिकोटिगुणितौ कृत्वा जातौ संख्यापिण्डौ पुनः परस्परं गुणयेदिति सिद्ध्यति । तेन च तं महाराशिं कोटिसंख्यया गुणयित्वा जातं पिण्डं पुनः कोटिसंख्ययैव गुणयेदिति फलति । तं महाराशिं समुद्रसंख्यया गुणयेदिति तु निष्कर्षः । समुद्रो नाम कोटिसंख्याया: कृतिसंज्ञकः समद्विघातः । कोटिगुणिता कोटिरिति यावत् । तदुक्तं वायुपुराणे
'सहस्रं तु सहस्राणां कोटीनां दशधा पुनः । गुणितं चेत्समुद्रं तं प्राहुः संख्याविदो जनाः ॥'
For Private and Personal Use Only