________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
324
ललितासहस्रनामस्तोत्रम् स्कान्दादावुपलभ्यन्त एवेत्यत आह--ललितेति । तेषां ललितातोऽपकृष्टदेवताप्रीतिकरत्वेन सर्वोत्कृष्टदेवताप्रीतिकरमिदमेवेत्यर्थः । नन्वीदृशमपि किञ्चित्सम्भाव्येतेत्यत आह–अनेनेति । सदृशं रहस्यतमत्वे सति ललिताप्रीतिकरत्वरूपसाधारणधर्मवत्त्वरूपसादृश्यवत् । स्तोत्र स्तोत्रान्तरम् । एकस्मिन्नुपमानोपमेयभावाभावात् । न भूतं इतःक्षणात्पूर्वकाले । न भविष्यति इत उत्तरकाले । भविष्यतीति शत्रन्तस्य सप्तमी वा । वर्तमानक्षणस्य तादृशस्तोत्रोत्पत्त्ययोग्यत्वात्कालत्रयासम्बन्धात्तादृशमसदेवेति भावः । अस्य विशेषणद्वयस्यान्यत्रासत्त्वप्रतिपादनाय विशेषणविवरणपर उत्तर: सर्वोऽपि ग्रन्थसन्दर्भः ॥ २३५ ॥ ___ तत्र रहस्यतमत्वं विवेचयति द्वाभ्याम् । 'प्रयासतारतम्यात्फलतारतम्य मिति न्यायेन फलभूमसाधने कष्टसाध्यत्वस्य प्रसिद्धतमत्वाद्बहुफलसाधनमप्यल्पायाससाध्य कर्म रहस्यतमम् । तत्र नामकीर्तने प्रयासेयत्तायाः स्पष्टत्वात्फलभूमानमेव विवृणोति । सर्वे रोगाः असाध्ययाप्यादिभेदभिन्नाः । दारिद्र्यस्यापि रोगतुल्यत्वेनोपस्थितत्वात्तदभावनियतसम्पवृद्धेरपि फलत्वमाह
सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम् ।
सर्वापमृत्युशमनं कालमृत्युनिवारणम् ॥ २३६ ॥ सर्वसम्पदिति । अथवा सम्पदारोग्ययोः परस्पराभावव्याप्यत्वादारोग्ये सति दारिद्रयं स्यादेवेति शङ्कामपाकुर्वन्नारोग्यं सम्पत्त्या समुच्चिनोति-सर्वसम्पदिति । गजतुरगसमृद्ध्यादिभेदभिन्नानां सम्पदामित्यर्थः । सर्वे अपमृत्यवः सर्पव्याघादिनिमित्तकाः । अत्यल्पमिदमुच्यत इत्याह-कालेति । काले आयुः परिमाण: परिसमाप्तौ । तेनापमृत्यूनामायुर्मध्य एव प्रसक्तिः । वर्तितैलादिसाचिव्येऽपि चण्डवातादिकृतदीपनाशवदिति सूचितम् ॥ २३६ ॥
सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् । सर्वे ज्वरा ऐकाहिकादिसान्निपातिकान्ताः । आर्तिस्तत्प्रयुक्ता शिरस्तोदादिरूपा पीडा तेषां शमनं नाशकम् । अथवा सर्वेषां ये रोगा इत्यादिरीत्या पदचतुष्टयं व्याख्येयम् । तेन जातेष्ट्यादिवत्फलसाधनयोर्वैयधिकरण्यमपि सिद्ध्यति । ततश्चान्यनिष्ठफलोद्देशेनान्यस्यापि साधने प्रवृत्तिरिह युक्तेति मन्तव्यम् । रोगैरेव सिद्धे ज्वरायो: पार्थक्येन ग्रहणं गोबलीवर्दन्यायेन । यदा वक्ष्यमाणकाम्यप्रयोगानुसारेण पार्थक्यम् । तत्र रोगशान्त्यादिचतुरवयवैकफलकप्रयोगकथनोत्तरं तत्तदवयवमात्रफलकानां प्रयोगाणां वक्ष्यमाणत्वात् । अत एव दीर्घायुष्यपदस्याप्ययमर्थः सिद्ध्यति । दीर्घ पूर्णं यत् आयुषो भाव आयुष्यं दीर्घायुष्ट्वं शतमानत्वं तस्य प्रदायकं तद्विघातकग्रहविषादिबाधानिरासकमिति । यद्वा आयुरेवायुष्यं दीर्घशतमाना
For Private and Personal Use Only