SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ललितासहस्रनामस्योत्तरभागे फलःश्रुतिः द्वादशी क्षमाख्या कला अथ फलश्रुतिश्लोकानामर्थं संगृह्णति परिभाषाकार: आविंशतितः सार्धान्नानाफलसाधनत्वोक्तिः। तस्य क्रमशो विवृतिः षट्चत्वारिंशता श्लोकैः ॥ ३८ ॥ सार्धषडशीतिश्लोकात्मकस्योत्तरभागस्य मध्ये प्रथमत: साधैर्विंशतिभिः श्लोकैः सहस्रनामकीर्तनस्य बहुविधफलसाधनत्वं प्रतिपाद्यते । एवं फलभेदेन कीर्तनकरणकभावनाया भेदादितिकर्तव्यताभेद उत्तरत्र षट्चत्वारिंशता श्लोकैः प्रतिपाद्यते । 'सर्वरोगप्रशमन मित्यादिना रोगनिरासादीनि फलानि येन क्रमेण पूर्वं प्रतिपादितानि तेनैव क्रमेणोत्तरत्र तत्तत्फलकाः प्रयोगा वक्ष्यन्त इत्यर्थः । यत्तु पूर्वम्-'श्रीमातुः प्रीतये तस्मादनिशं कीर्तयेदिद'मित्यत्र प्रीतिरेव भाव्यत्वेनोक्ता सा च विविधफलजननद्वारत्वेन पूर्वतन्त्रे पूर्वस्येवास्य तन्त्रे देवताप्रीतेरेव द्वारत्वकल्पनसम्भवात् । अस्तु वा स्वातन्त्र्येण प्रीतेरपि फलत्वमित्याशयः ॥ ३८ ॥ ___ एवं प्रीतिफलककीर्तनोपयोगि नामसहस्रं प्रतिपाद्य तदुपसंहरन्फलानि विवेचयितुकामो भगवान्हयग्रीवाचार्य उत्तरं ग्रन्थसन्दर्भमारभते इत्येवं नाम साहसं कथितं ते घटोद्भव ॥ २३४ ॥ इत्येवमित्यादिना । इतिशब्द: समाप्तिवचनः सन्सहस्रसंख्याया अन्यूनानतिरिक्ततां ध्वनयति । एवम् उक्तेन प्रकारेण यथावत्प्रतिपादितेन सरस्वतीगङ्गासहस्रनामादौ सहस्रसंख्यापूर्तेरभावादपार्थको गौणो वा सहस्रनामशब्दो नात्र तथेति ध्वनितम् । नाम्नां सहस्रमेव साहस्रम् । राक्षसमानसादिवत्स्वार्थे तद्धितः । घटोद्भवेत्यगस्त्यस्य संबुद्धिः ॥ २३४ ॥ ___ ननु कूर्मपुराणादौ देवीसहस्रनामादिकमप्यन्यूनानतिरिक्तसहनसंख्याकमेवेत्यत आह रहस्यानां रहस्यं च ललिताप्रीतिदायकम् । अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ॥ २३५ ॥ रहस्यानामिति । रहस्यानां न्यासजपादिरूपाणां मध्ये इति निर्धारणे षष्ठी । तेन रहस्यमित्यस्य रहस्यतममित्यर्थः । ननु रहस्यतमान्यपि गङ्गासहस्रनामादीनि For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy