________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
322
ललितासहस्रनामस्तोत्रम् कत्वात्तमादायैव संख्यापूर्तिः । परन्तु 'इङ् अध्ययन' इति धातोरधिपूर्वस्यैव प्रयोग इति नियमवत् ज्योतिरादीनामिह सविशेषणकानामेव प्रयोग इत्यनाम्नानबलान्नियमः कल्प्यते । तथा नियमेऽपि धातुत्वस्येङ्मात्र इव नामत्वस्य ज्योतिःपदमात्रे पर्याप्तिः । 'अग्निं पवमानमावहा', 'अग्नये पवमानायेदमित्यादि नैगमिकप्रयोगवदिहापि 'परज्योतिस्तर्पयामि परस्मैज्योतिषे स्वाहेत्यादयस्तर्पणहोमादौ प्रयोगनियमाः । परमिति तु मान्तमव्ययमिति केचित् । तत्पक्षे तु न मध्ये चतुर्थी । कौलिनीकेवलेति विशेष्यविशेषणभावापन्नपदद्वयपक्षेऽपि केवलेत्यस्य यथान्यासं कौलिन्यै केवलायै नम इत्यादिप्रयोगो न केवलायै कौलिन्या इत्यादिः । आम्नानवैपरीत्ये मानाभावात् । एतेन विष्णुसहस्रनामसु- 'अनादिर्भूर्भुवोलक्ष्मी रित्यत्र भूर्भुवरित्यस्य भुवोभूरित्यन्वयेन भूमेर्जनक इत्यर्थंकैकनामत्वपक्षे भूर्भुवे नम इति वा भुवोभुवे नम इति वा मन्त्रप्रयोगः परास्तः । न्यायेन भुवेभवोनम इत्यस्यैव युक्तत्वादित्यादिकमूह्यम् ॥ ३६ ॥
निधिरात्मा दम्भोलि: शेवधिरिति नाम पुंलिङ्गम् ।
तद्ब्रह्मधाम साधुज्योतिः क्लीबेऽव्ययं स्वधा स्वाहा ॥ ३७॥ प्रसङ्गाल्लिङ्गभेदेन नामानि विभज्य दर्शयति । गुणनिधिः, आत्मा', 'रोगपर्वतदम्भोलिः', 'महालावण्यशेवधि रिति नामानि पुंल्लिङ्गानि । तेन गुणनिध्यै इत्यादिः पाक्षिक: प्रयोगो न कार्यः । एवं मन्त्रार्थानुसन्धानेऽपि फलभेदः । तदित्यादिपञ्च नामानि नपुंसकानि । शेषाणि स्त्रीलिङ्गानीति शेषः । त्वमिति पदमपि स्त्रीलिङ्गमेव । 'अलिङ्गे युष्मदस्मदी' इत्यस्य लिङ्गकृतवैरूप्याभावमात्रपरत्वात् । 'युष्मदस्मत्षट्संज्ञकास्त्रिषु सरूपा' इति वचनान्तरानुगुण्यात् । स्वधास्वाहेत्यनयोरव्ययत्वात्स्वधानम इत्यादिरेव प्रयोगः । स्वान्धत्ते इत्यादिरूपेऽर्थे तु स्वधायै नम इत्यादिरेव प्रयोगः सुवच इत्युक्तम् ॥ ३७॥
इति भास्कररायेण कृते सौभाग्यभास्करे । दशमेन शतेनाभूद्धारिण्येकादशी कला ॥ १000 ॥ इति श्रीभास्कररायविरचिते ललितासहस्रभाष्ये दशमशतकं
नामैकादशी कला ॥११॥
For Private and Personal Use Only