Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 329
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 315 सौभाग्यभास्कर-बालातपासहितम् दित्यन्तेनोक्तास्तानतीतं रूपमस्याः । शैववैष्णवादयः षडुपासनामार्गास्तानतीतं तेषामेतत्प्राप्तिसाधनत्वात्तादृशं रूपमस्या इति वा । उक्तञ्च कुलार्णवे 'शैववैष्णवदौर्किगाणपत्येन्दुसम्भवैः । मन्त्रैर्विशुद्धचित्तस्य कुलज्ञानं प्रकाशते ॥ इति । इन्दुसम्भवं जैनदर्शनम् । जन्मान्तरे षड्विधोपासकानामिहजन्मनि सुन्दर्युपास्तिलाभ इति तदर्थः । अव्याजकरूणामूर्तिरज्ञानध्वान्तदीपिका ।। २३२॥ अव्याजा अनौपधिकी या करुणा सैव मूर्तिः स्वरूपं यस्याः । 'जयति करुणा काचिदरुणे'त्यभियुक्तोक्तेः । अतएवाह-अज्ञानेति । अज्ञानमेव ध्वान्तमन्धकारस्तस्य दीपिकेव नाशकत्वात् । तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वते ॥ इति भगवद्वचनात् ॥ २३२ ॥ आबालगोपविदिता सर्वानुल्लङ्घयशासना। बालान् ब्रह्मादिकान् गोपयतीति बालगोपः । बालश्चासौ गोपश्च बालगोपः । बालगोपश्च बालगोपश्च बालगोपौ तावभिव्याप्य आबालगोपं तादृशेन विदितं ज्ञानं यस्याः सा । अत्रैको बालगोपशब्द: सदाशिवपरः कृष्णावतारपरो वा । अन्यः पामरोपलक्षणम् । हरिहरादिपामरान्ता यां जानन्तीत्यर्थः । उक्तञ्च स्कान्दे'तमहंप्रत्ययव्याजात्सर्वे जानन्ति जन्तव' इति । नन्वेवं सति 'अतिपरिचयादवज्ञेति न्यायात्सर्वेषामनादरणीया स्यादत आह ।। सर्वैर्ब्रह्मविष्णवादिभिरप्युल्लवितुमतिवर्तितुमयोग्यमशक्यं च शासनं यस्याः । तदुक्तमाचार्यभगवत्पादैः - 'जगत्सूते धाता हरिरवति रुद्रः क्षपयति तिरस्कुर्वन्नेतत्स्वमपि वपुमीशस्तिरयति । अव्याजकरुणा नैसर्गिकीदया सैव मूर्तिर्यस्याः सा । मूत्य इति ॥ अज्ञानान्धकारस्य दीपिकेव नाशिका । दीपिकायै इति ॥ २३२ ॥ बालगोपपर्यन्तैः सर्वैर्शाता | विदितायै इति ॥ सर्वे ब्रह्मादिभिरनुल्लङ्घयं शासनं आज्ञा यस्याः सा | शासनायै इति ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392