Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर - बालातपासहितम्
पौनरुक्त्यपरिहारायोपायान्तरमाह । शाङ्करी श्रीकरी साध्वीत्यनेन पौनरुक्त्यपरिहाराय 'सम्प्रदायेश्वरी साध्वीत्यत्र साधु ई इति द्वेधा पदभेद: । 'तत्त्वाधिका तत्त्वमयी त्यनेन तत्परिहाराय तत्त्वासना तत्त्वमयी त्यत्र तत् त्वम् अति पदच्छेदः । पौनरुक्त्याभावेऽपि पदभेदभ्रमनिरासायाह-हंसेति । आ अर्धान्तात् अर्धसमाप्तिपर्यन्तं हंसवती मुख्यशक्तिसमन्वितेत्येकं पदम् । 'अनर्घ्या कैवल्यपददायिनी'त्यत्र तु 'क्लींकारी केवला गुह्या कैवल्यपददायिनी' त्यनेन पौनरुक्त्यपरिहारोऽपि फलम् । एतेन छलाक्षरसूत्राणां न्यायमूलकत्वमेवेति प्रबलन्यायेन क्वचित्तदुक्तनियमान्यथात्वेऽपि न दोष इति सूचितम् । अत एव सामेवेदिभिर्निदानसूत्रान्तर्गतछन्दोविचितिभाष्ये न्यायविरोधे छलाक्षरपाठोऽनादरणीय इत्युक्तं रथन्तरसामप्रकरणे । कान्तापदे अकारयोगे विनिगमनाविरहः, यथा वा 'कैवल्यपददायिनी त्यत्र पदान्तरयोगे सत्रन्यायतो विकल्पप्रसक्तावपि छलाक्षरसूत्रप्रमाण्यात् 'कल्पनारहिता काष्ठेत्यत्रेवाऽकान्तेति पदच्छेद: । 'कौलिनी केवले -- त्यत्रेवानर्घ्यपदस्योत्तरप्रयोग इति स्वीकर्तुं युक्तम् । अव्यवस्थितशास्त्रार्थायोगादिति द्रष्टव्यम् ॥ ३५ ॥
शक्तिर्निष्ठाधामज्योतिः परपूर्वकं द्विपदम् । शोभनसुलभासुगतिस्त्रिपदैकपदानि शेषाणि ॥ ३६ ॥
For Private and Personal Use Only
321
अनेकपदानि नामानि संगृह्णाति । शक्त्यादिपदचतुष्टयात्पूर्वं तद्विशेषणत्वेन परपदत्वेन पठ्यते । तेन सह द्विद्विपदानि तानि नामानि 'पराशक्तिः परानिष्ठा', 'परंज्योतिः परंधामे 'ति । 'कौलिनीकेवले त्यादौ 'अजाजेत्री 'तिवत्समाससम्भवान्न तत्र पदद्वयावश्यकतेति भाव: । 'शोभना सुलभा गतिरित्यत्र तु त्रिपदं नाम । शेषाण्येकपदानि समानाधिकरणानेकविभक्तिरहितानीत्यर्थः । तेन 'अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता' | 'मनोवाचामगोचरे 'त्यादौ व्यधिकरणविभक्तिद्वयसत्त्वेऽपि तयोर्नामभेदभ्रमानाधायकत्वेन द्विपदेषु तदाधायकानामेव गणनाद्वा न दोष: । 'पराशक्तिरित्यत्र 'शोभंनासुलभागतिरित्यत्र चैकैकं पदमित्येव सुवचमिति तु पूर्वमेवोक्तम् । ननु 'परंज्योतिरिति वाक्ये प्रातिपदिकसंज्ञाभावेन कथं नामत्वम् । न च 'प्रजापतेर्हृदयम्, 'पारेगङ्गम्', 'मध्येमहाभारत'मित्यादेरिवैकपदत्वम् । तेषु प्रथमपदान्ते विभक्तिसरूपवर्णमात्रसत्त्वेन विभक्त्यन्तराभावात् । न च 'परंज्योति रित्यादौ तथा सम्भवति । विशेष्योत्तरविभक्त्यन्यथाभावप्रयुक्तान्यथाभावकविभक्तिक[विभक्त]विशेषणपदकत्वात्। नीलमुत्पलमित्यादौ तथात्वे वाक्यत्वस्यैव स्वीकारात् । अत एव 'अहयेबुध्नियाय स्वाहा', 'अहेबुध्निय मन्त्रं मे गोपाय' इत्यादौ पदद्वयेऽपि विभक्तिव्यत्यास इति चेन्न | परिभाषिकप्रातिपदिकसंज्ञाया अभावेऽपि सम्भूयैकव्यक्तिविशेष्यकबोधजनकपदत्वरूपस्य नामत्वस्यैव सहस्रनामसंख्याघटकत्वेनादोषात् । वस्तुतस्तु ज्योतिःपदस्य प्रातिपदि -
Loading... Page Navigation 1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392