SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 294 ललितासहस्रनामस्तोत्रम् पुष्याश्लेषा तथादित्या वीथी चैरावती स्मृता । एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते ॥ तथा द्वे चापि फल्गुन्यौ मघा चैवार्षती मता। हस्तश्चित्रा तथा स्वाती गोवीथीति तु शब्दिता ॥ ज्येष्ठा विशाखानुराधा वीथी जारद्वी मता । एतास्तु वीथयस्तिस्रो मध्यमोमार्ग उच्यते ॥ मूलाषाढोत्तराषाढा अजवीथ्यभिशब्दिता । श्रवणं च धनिष्ठा च मार्गी शतभिषस्तथा ॥ वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता । एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते ॥ इति । याम्या भरणी । आदित्या अदितिदेवत्या पुनर्वसुः । मार्गी मृगवीथी । स्पष्टमन्यत् । अत्र सव्यादयस्त्रयोऽपि शब्दा: प्रत्येकं मार्गत्रयस्यापि वाचकाः सम्भवन्ति । तथाहि- 'वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिणमिति कोशात्प्रकृते सव्यशब्देन नागवीथीगजवीथ्यैरावतवीथ्यात्मक उत्तरो मार्गो विवक्ष्यते । अपसव्यशब्देन त्वजवीथीमृगवीथीवैश्वानरवीथ्यात्मको दक्षिणो मार्गः । मार्गशब्देन सामान्यवाचिनैव पारिशेष्यादार्षतवीथीगोवीथीजारद्ववीथ्यात्मको मध्यमो मार्ग उच्यते । यद्वा उत्तरमार्गो मृगशीर्षसम्बन्धित्वेन मृगस्यायं मार्ग इति व्युत्पत्त्या मार्गपदेनोच्यते । मध्यमस्तु सव्यपदेन पक्षिणमार्गात्सव्यस्थानीयत्वात् । अपसव्यस्तु यथास्थित एव । यद्वा 'सव्यं दक्षिणवामयो रिति कोशाद्दक्षिणमध्यमार्गावेव सव्यापसव्यपदेनोच्येते । उत्तरस्तु मार्गपदेनेति त्रयाणां मार्गाणां वामसंस्थक्रमेण निर्देशः सम्पद्यते । अथवा दक्षिणमार्ग एव मुंगवीथीसम्बन्धित्वादुक्तव्युत्पत्त्या मार्गपदेनोच्यताम् । मध्यमस्तु सव्यपदेन मार्गाद्वामत्वात् उत्तरमार्गापेक्षया दक्षिणत्वाद्वा । अत एव तद्विरुद्धत्वादुत्तरो मार्गोऽपसव्यः । मध्यम एव वाऽपसव्यपदेन उत्तरमार्गापेक्षया दक्षिणस्थानीयत्वात्सव्यपदेन तूत्तर एवेति दक्षिणसंस्थक्रमेणापि निर्देशः सम्पनीपद्यत इत्येका व्याख्या। ____ एवं वा |सव्यो देवयानोऽर्चिरादिमार्गो निवृत्तिपरैः प्राप्यः । अपसव्यः पितृयाणो धूम्रादिमार्गः प्रवृत्तिपरैः प्राप्यः । मार्गस्थशब्दो मार्गेषु स्था स्थितिर्यस्मादिति व्युत्पत्त्या ध्रुवावस्थितिशालिविष्णुलोकपरः । आदित्यादिग्रहाणां स्वस्वमार्गे स्थापनस्य ध्रुवाधीनत्वात् । ईदृशमार्गत्रयरूपेत्यर्थः । एतद्विस्तरस्तु विष्णुपुराणे द्वितीयेऽशे 'उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम् । पितृयाणः स वै पन्था वैश्वानरपथावहिः ॥ तत्रासते महात्मानो ऋषयो ह्यग्निहोत्रिणः । भूतारम्भकृतं ब्रह्म शंसन्तो ऋत्विगुद्यताः ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy