SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 295 सौभाग्यभास्कर-बालातपासहितम् प्रारभन्ते तु ये लोकास्तेषां पन्थास्तु दक्षिणः । चलितं ते पुनर्ब्रह्म स्थापयन्ति युगे युगे ॥ सन्तप्ततपसा चैव मर्यादाभिः श्रुतेन च । जायमानाश्च पूर्वे च पश्चिमानां गृहेषु वै ॥ पश्चिमाश्चैव पूर्वेषांजायन्ते निधनेष्विह । एवमावर्तमानास्ते तिष्ठन्ति नियतव्रताः ॥ सवितुर्दक्षिणं मार्ग श्रिता ह्याचन्द्रतारकम् ।' इति । लोकालोकपर्वतस्योत्तरशृङ्गमगस्त्यस्थानम् । तदुक्तं मत्स्यपुराणे 'लोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम् । तस्योत्तरमगस्त्यस्य शृङ्ग देवर्षिपूजितम् ॥ इति । अजवीथ्या: मूलादिनक्षत्रत्रयस्य वैश्वानरपथाच्चरमनक्षत्रत्रयात् भूतारम्भकृतं ब्रह्मप्रवृत्तिमार्गबोधकं कर्मकाण्डात्मकं वेदभागम् । जायमाना इति मता अपि स्वकुल एव पुनःपुनर्जायमाना इति समुदायार्थः । तथा तत्रैव 'नागवीथ्युत्तरं यच्च सप्तर्षिभ्यश्च दक्षिणम् । उत्तरः सवितुः पन्था देवयानस्तु स स्मृतः ॥ तत्र ते वशिनःसिद्धा विमला ब्रह्मचारिणः । सन्ततिं ये जुगुप्सन्ति तस्मान्मृत्युजितश्च ते ॥ अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् । उदक्पन्थानमर्यम्णः स्थिताश्चाभूतसंप्लवम् ॥ ते संप्रयोगाल्लोभस्य मैथुनस्य च वर्जनात् । इच्छाद्वेषाप्रवृत्त्या च भूतारम्भविवर्जनात् ॥ पुनश्चाकामसंयोगादिच्छादेर्दोषदर्शनात् । इत्येवं कारणैः शुद्धास्तेऽमृतत्वं हि भेजिरे ॥ आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते । त्रैलोक्यस्थितिकालोऽयमपुनर्मार उच्यते ॥ इति । नागवीथ्युत्तरं अश्विन्यादित्रयोत्तरम् । भूतारम्भविवर्जनात् प्रवृत्तिमार्गपरित्यागात् । तृतीयमार्गेण सह फलैक्यं माप्रसाङ्क्षीदत आह-आभूतसंप्लवमिति । तथा तत्रैव 'ऊोत्तरमृषिभ्यस्तु धुवो यत्र : यवस्थितः । एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भासुरम् ॥ निर्धूतदोषपकानां यतीनां संयतात्मनाम् । स्थानं तत्परमं विप्र पुण्यपापपरिक्षये ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy