SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 296 ललितासहस्रनामस्तोत्रम् अपुण्यपुण्योपरमे क्षीणाशेषार्तिहेतवः । यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ॥ दिवीव चक्षुराततं योगिनां तन्मयात्मनाम् । विवेकज्ञानदृष्टं च तद्विष्णोः परमपदम् ॥ इत्यादि । इत्यपरा व्याख्या ।। एवं वा । उपासनाक्रमे हि द्वौ मार्गो दृश्येते- वाममार्गो दक्षिणभार्गश्चेति । तत्र वाममार्गो नाम स्वस्ववर्णाश्रमविहितानि यावन्ति कर्माणि, श्रौतान्यग्निहोत्रादीनि, स्मार्तान्यष्टकादीनि, तान्त्रिकाणि मन्त्रसिद्ध्यादीनि, तेषु सर्वेषु या या देवताः प्रधानभूता अङ्गभूता वा तत्तत्स्थाने स्वोपास्यामेव देवतां सर्वत्र भावयेत् । तत्तद्देवतावाचकपदोत्तरं विशेष्यत्वेन स्वदेवतावाचकपदं सर्वमन्त्रेषु निक्षिपेदित्याकारकः । ईदृशे मार्गे देवर्षिपितॄणामृणशोधनाभावजन्यं पातकम् । दक्षिणमार्गे तु श्रौतादितत्तत्कर्माङ्गदेवतास्थाने स्वोपास्यदेवतैव भावनीयेति न निर्बन्धः अपि तु तत्तद्देवताविषयकतन्त्रेषु यानि कर्माणि विहितानि तदङ्गत्वेनैवेति सर्वकर्मणामुपरोधाभावादस्मिन्मार्गे तादृशं पातकं नास्तीति झडिति मोक्षः । वाममार्गे तु विलम्बितः । ऋणशोधनाभावेन कञ्चित्कालं प्रतिबन्धात् । न चैवं सत्यनुष्ठानतोऽपि कठिने मोक्षाशेऽपि विलम्बिते साधने कथं शिष्टानां वाममार्गे प्रवृत्तिरिति वाच्यम् । ऐहिकानामुच्चावचफलानामिहैव जन्मनि भोगलिप्सया मोक्षे स्वल्पविलम्बस्य सोढव्यत्वात् । भुक्तिमुक्तिप्रदत्वेन वैषयिकशिष्टानां प्रवृत्तिसम्भवात् । ऐहिकभोगविरक्तशिष्टानां तु मोक्षे विलम्बस्यासोढव्यत्वाद्दक्षिण एव मार्गे प्रवृत्तिरिति विवेकः । तदिदं सविस्तरं निरूपितं कालिकापुराणे 'सर्वत्र देवीमन्त्रेषु वैदिकेष्वपि भैरवीम् । त्रिपुरां चिन्तयेन्नित्यं वेदमन्त्रेषु च क्रमात ॥ देवनामसु सर्वेषु भैरवीति पदं सदा । कुर्याद्विशेषणं नित्यं नोच्चार्य निर्विशेषणम् ॥ आपः पुनन्तु पृथिवीमुकत्वत्रिपुरभैरवीम् । कुर्यादाचमनं विप्रो द्रुपदायां तथा चरेत् ॥ इदं विष्णुभैरवस्तु विचक्रम इतीरितम् । मृदालम्बनकृत्येषु मन्त्रमेतं नियोजयेत् ॥ गायत्रीं त्रिपुराद्यां तु भैरवीमुच्चरञ्छिवाम् । मार्ताण्डभैरवायेति सूर्यायायं निवेदयेत् ॥ उदुत्यं जातवेदसं देवं वहन्ति केतवः । For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy