SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर - बालातपासहितम् दृशे विश्वाय सूर्य तु शेषे भैरवमीरयेत् ॥ तर्पणादौ प्रयुञ्जीत तृप्यतां ब्रह्म भैरवम् । आवाहने च स्वपितॄन्चैरवानिति तर्पयेत् । तृप्यतां भैरवी मातः पितृभैरव तृप्यताम् । आदौ च त्रिपुरां पूर्व तर्पणेऽपि प्रयोजयेत् । ज्योतिष्टोमाश्वमेधादौ यत्र यत्र प्रपूजयेत् । तत्र भैरवरूपेण देवीमपि च भैरवीम् ॥ एवं तु वाम्यभावेन यजेत्त्रिपुरभैरवीम् । एषा वामेन मार्गेण पूज्या दक्षिणतां विना ॥ ऋषीन्देवान्पितुश्चैव मनुष्यान्भूतसञ्चयात् । यो यजेत्पञ्चभिर्यज्ञैर्ऋणानां परिशोधनैः ॥ विधिवत्स्नानदानाभ्यां सर्वं यद्विधिपूजनम् । क्रियते सरहस्यं तु तद्दाक्षिण्यमिहोच्यते ॥ सर्वत्र पितृदेवादौ यस्माद्भवति दक्षिणः । देवी च दक्षिणा यस्मात्तस्माद्दक्षिण उच्यते ॥ या देवी पूज्यमाना तु देवादीनामशेषतः । यज्ञभागान्स्वयं भुङ्क्तै सा वामा तु प्रकीर्तिता ॥ पूजोप भवेद्वामस्तन्मार्गे सततं रतः । पञ्चयज्ञान्न वा कुर्यान्न कुर्याद्वामपूजने ॥ अन्यस्य पूजाभागं हि यतो गृह्णति वामिका । यः पूजयेद्वाम्यभावैर्न तस्य ऋणशोधनम् ॥ पितृदेवनरादीनां जायते तु कदाचन । सर्वत्र त्रिपुरायोगस्तेन मार्गेण गच्छतः ॥ यदा जायेत प्राज्ञस्य तदा मोक्षमवाप्नुयात् । चिरेण लभते मोक्षं वामेन त्रैपुरो नरः ॥ ऋणशोधनजैः पापैराक्रान्तत्वेन भैरव । इहलोके सुखैश्वर्ययुक्तः सर्वत्र वल्लभः ॥ मदनोपमकान्तेन शरीरेण विराजता । सराष्ट्रकं च राजानं वशीकृत्य समन्ततः ॥ मोहयन्वनिताः सर्वाः कुर्वश्च मदविह्वलाः । सिंहान्व्याघ्रांस्तरक्षूंश्व भूतप्रेतपिशाचकान् ॥ वशीकुर्वन्विचरति वायुवेगो वारितः । For Private and Personal Use Only 297
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy