Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
303 कृतम् । यदुक्तम्- 'लुप्लुलुख्लुरीकिकोटपती। लुयायूटाख़रीडकीकोरीयफी' इति त्रयोदशाक्षरैः छाया । अष्टाक्षराणि त्रीणि नामानीत्यादिरीत्यैकविंशतिर्नामानि 'सदाशिवकुटुम्बिनी'त्यारभ्य 'मानवती'त्यन्तानि तत्र कथ्यन्ते । तत्र किको इत्यक्षरद्वयेन त्र्यक्षरमेकं त्रयोदशाक्षरमेकमिति द्वे नामनी । कवर्गीयाद्यक्षरके इत्यर्थकन प्रकृतं नामद्वयं वर्ण्यत इति स्थितिः । अत्र हि छलार्णसूत्राणां दृष्टोपपत्तिमूलकतायाः पूर्वमेवोक्तत्वात्षड्भिर्नामभिर्नामत्रयकरणमपेक्ष्य नामचतुष्टयपरत्वेन पदच्छेदवर्णनस्य युक्ततां मन्वानैर्मूलकारैरस्मद्गुरुचरणैरिह षडक्षरमेकं नामावशिष्टमपरमिति द्वे नामनी स्वीकृत्य कौलिनी कुलयोगिनी'त्यत्रापि द्वे नामनी स्वीकृते । पौनरुक्त्यपरिहारस्त्वस्मिन्पक्षेऽपि तुल्य एव । न चैवं नामाधिक्यम् । 'प्रसवित्री प्रचण्डाज्ञा प्रतिष्ठा प्रकटाकृति रित्यत्र छलाक्षरसूत्रकारैः प्रकटाकृतिरित्यनयोर्नामद्वयस्वीकारेऽपि गुरुचरणैरेकनामत्वस्वीकारेण तदभावादिति । तस्मादिह कौलिनीकेवलेत्येकं नाम । न चैत्पक्षे समासानुपपत्तिः । समानाधिकरणसमामे 'पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेने ति नियमनात्केवलपदस्य पूर्वनिपातापत्तिः । बहुव्रीहौ तु कौलिनीपदस्य पुवंद्भावापत्तिरिति वाच्यम् । परंज्योतिरित्यादाविव भिन्नपदयोरप्येकनामत्वसम्भवात् । कौलधर्मवती केवलाख्यज्ञानवती चेत्यर्थः । ईश्वरज्ञानं केवलपदवाच्यम् । जैनतन्त्रे तथा प्रयोगस्य बहुशो दर्शनात् । सकलधर्मेर्विमुक्ता वा केवला । सुखदुःखविमुक्ता वा । तद्विमुक्तस्तु केवली ति शिवसूत्रे केवलीति संज्ञाया दर्शनात् । 'सुखासुखयोर्बहिर्मनन मिति पूर्वसूत्रोपात्तसुखदुःखयोस्तत्पदेन परामर्शात् । प्रकृते च मत्वर्थीयस्येनिप्रत्ययस्याभावेऽपि तादृशस्याच्प्रत्ययस्य सुवचत्वात् । एककृत्स्ननिर्णीताख्या अपि त्रयोऽर्था इह वर्णनीयाः । तथा च विश्व:
'केवलं ज्ञानभेदे स्यात्केवलश्चैककृत्स्नयोः ।
निर्णीते केवलं चोक्तं केवलः कुहने क्वचित् ॥' इति । वस्तुतः केवलकौलधर्मवतीत्येवार्थः । विशेषणविशेष्यभावादिना परस्परान्वय एव भिन्नपदयोरेकनामत्वनियमात् । अथवा दत्ताभार्य इत्यत्र दानक्रियानिमित्तस्यापि दत्तापदस्य संज्ञात्वमङ्गीकृत्य 'संज्ञापूरण्योश्चेति पुंवद्भावनिषेध आश्रीयते वैयाकरणस्तद्वदिहापि कौलिनीपदस्यापि संज्ञात्वात् कौलिन्यः केवला ज्ञानवत्यो ययेति बहुव्रीहिरपि सम्भवति । कौलिनीभिः केवला निर्णीतेति तृतीयासमासो वा । 'तृतीया तत्कृतार्थेन गुणवचनेनेति सूत्रे गुणोपसर्जनः । द्रव्यवचनपरत्वेन गुणवचनपदस्य व्याख्यानात् । गुणमुक्तवान् गुणवचनः । 'कृत्यल्युटो बहुल मिति भूते कर्तरि ल्युडिति निर्णयस्यापि गुणत्वेन तत्कर्मवाचिन: केवलपदस्यापि गुणवचनत्वम् । अनर्घ्यममूल्यमपरिच्छिन्नं यत्कैवल्याख्यं पदं पञ्चममुक्तिरूपं तद्दातुं शीलमस्याः । अनर्ण्यति
For Private and Personal Use Only
Loading... Page Navigation 1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392