SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 303 कृतम् । यदुक्तम्- 'लुप्लुलुख्लुरीकिकोटपती। लुयायूटाख़रीडकीकोरीयफी' इति त्रयोदशाक्षरैः छाया । अष्टाक्षराणि त्रीणि नामानीत्यादिरीत्यैकविंशतिर्नामानि 'सदाशिवकुटुम्बिनी'त्यारभ्य 'मानवती'त्यन्तानि तत्र कथ्यन्ते । तत्र किको इत्यक्षरद्वयेन त्र्यक्षरमेकं त्रयोदशाक्षरमेकमिति द्वे नामनी । कवर्गीयाद्यक्षरके इत्यर्थकन प्रकृतं नामद्वयं वर्ण्यत इति स्थितिः । अत्र हि छलार्णसूत्राणां दृष्टोपपत्तिमूलकतायाः पूर्वमेवोक्तत्वात्षड्भिर्नामभिर्नामत्रयकरणमपेक्ष्य नामचतुष्टयपरत्वेन पदच्छेदवर्णनस्य युक्ततां मन्वानैर्मूलकारैरस्मद्गुरुचरणैरिह षडक्षरमेकं नामावशिष्टमपरमिति द्वे नामनी स्वीकृत्य कौलिनी कुलयोगिनी'त्यत्रापि द्वे नामनी स्वीकृते । पौनरुक्त्यपरिहारस्त्वस्मिन्पक्षेऽपि तुल्य एव । न चैवं नामाधिक्यम् । 'प्रसवित्री प्रचण्डाज्ञा प्रतिष्ठा प्रकटाकृति रित्यत्र छलाक्षरसूत्रकारैः प्रकटाकृतिरित्यनयोर्नामद्वयस्वीकारेऽपि गुरुचरणैरेकनामत्वस्वीकारेण तदभावादिति । तस्मादिह कौलिनीकेवलेत्येकं नाम । न चैत्पक्षे समासानुपपत्तिः । समानाधिकरणसमामे 'पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेने ति नियमनात्केवलपदस्य पूर्वनिपातापत्तिः । बहुव्रीहौ तु कौलिनीपदस्य पुवंद्भावापत्तिरिति वाच्यम् । परंज्योतिरित्यादाविव भिन्नपदयोरप्येकनामत्वसम्भवात् । कौलधर्मवती केवलाख्यज्ञानवती चेत्यर्थः । ईश्वरज्ञानं केवलपदवाच्यम् । जैनतन्त्रे तथा प्रयोगस्य बहुशो दर्शनात् । सकलधर्मेर्विमुक्ता वा केवला । सुखदुःखविमुक्ता वा । तद्विमुक्तस्तु केवली ति शिवसूत्रे केवलीति संज्ञाया दर्शनात् । 'सुखासुखयोर्बहिर्मनन मिति पूर्वसूत्रोपात्तसुखदुःखयोस्तत्पदेन परामर्शात् । प्रकृते च मत्वर्थीयस्येनिप्रत्ययस्याभावेऽपि तादृशस्याच्प्रत्ययस्य सुवचत्वात् । एककृत्स्ननिर्णीताख्या अपि त्रयोऽर्था इह वर्णनीयाः । तथा च विश्व: 'केवलं ज्ञानभेदे स्यात्केवलश्चैककृत्स्नयोः । निर्णीते केवलं चोक्तं केवलः कुहने क्वचित् ॥' इति । वस्तुतः केवलकौलधर्मवतीत्येवार्थः । विशेषणविशेष्यभावादिना परस्परान्वय एव भिन्नपदयोरेकनामत्वनियमात् । अथवा दत्ताभार्य इत्यत्र दानक्रियानिमित्तस्यापि दत्तापदस्य संज्ञात्वमङ्गीकृत्य 'संज्ञापूरण्योश्चेति पुंवद्भावनिषेध आश्रीयते वैयाकरणस्तद्वदिहापि कौलिनीपदस्यापि संज्ञात्वात् कौलिन्यः केवला ज्ञानवत्यो ययेति बहुव्रीहिरपि सम्भवति । कौलिनीभिः केवला निर्णीतेति तृतीयासमासो वा । 'तृतीया तत्कृतार्थेन गुणवचनेनेति सूत्रे गुणोपसर्जनः । द्रव्यवचनपरत्वेन गुणवचनपदस्य व्याख्यानात् । गुणमुक्तवान् गुणवचनः । 'कृत्यल्युटो बहुल मिति भूते कर्तरि ल्युडिति निर्णयस्यापि गुणत्वेन तत्कर्मवाचिन: केवलपदस्यापि गुणवचनत्वम् । अनर्घ्यममूल्यमपरिच्छिन्नं यत्कैवल्याख्यं पदं पञ्चममुक्तिरूपं तद्दातुं शीलमस्याः । अनर्ण्यति For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy